________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१९१ अभिदधति कथयन्ति । किमित्यपेक्षायामाह-वरूपनियतस्येति । वै निश्चितम् । स्वरूपनियतस्य आत्मत्वेनाविशिष्टस्य, कर्तुः आत्मनः । अन्यसम्बन्धं विना आत्मव्यतिरिक्तकर्मसम्बन्धमन्तरेण । शक्तिराकस्मिकी कुतः? अकस्मादुत्पत्तिका सती शक्तिः कस्माद् भवेत् ? न कथञ्चिद् भवेदित्यर्थः, अत्रा. पाद्याऽऽपादकयोवैयधिकरण्यपरिहाराय शक्तिर्यद्यात्ममात्राजन्यत्वे सति तदतिरिक्तासाधारणकारणजन्या न स्यादित्येवमापादनमुशन्त्युपाध्यायाः ॥९७ ॥
उपदर्शितापादने आपादकस्यात्ममात्राजन्यत्वे सति तदतिरिक्तासाधारणकारणजन्यत्वाभावस्य विशेष्यतया घटको यस्तदतिरिक्तासाधारणकारणजन्यत्वाभावस्तस्यासिद्धिमाशङ्कय प्रतिक्षिपति
तक्रियायोगतः सा चेत , तदपुष्टौ न युज्यते ।
तदन्ययोगाभावे च, पुष्टिरस्य कथं भवेत् ? ॥ ९८ ॥ तक्रियायोगत इति-आत्मनः सुपात्रदानादिक्रियासम्बन्धादित्यर्थः । सा शक्तिः, तथा चात्मातिरिक्तासाधारणकारणजन्यत्वमेवास्तीति तदभावोऽसिद्ध इति, चेत् ? एवं यदि मन्यसे तदा, तदपुष्टौ निरुक्तक्रियाजन्यशक्तौ सत्यामपि आत्मनोऽपुष्टौ सत्याम् , अनुपचये सति, यथैव पूर्वमात्मस्वरूपमासीत् तथैव तत्स्वरूपसद्भावे सतीति यावत् । न युज्यते सेत्यनुवर्तते, क्रियाजन्या शक्तिर्न घटते, यथा मृदः पुष्टावेव घटादिजनिका शक्तिर्भवति, तथाऽऽत्मनोऽपि पुष्टावेव सुखादिजनिका शक्तिः स्यात्, न त्वन्यथेति भावमुपाध्याया वर्णयन्ति । अथोक्तदोषपरिहारार्थ पुष्टिरिष्यत एवात्मन इत्यत आह-तदन्ययोगाभावे चेति-तया क्रिययाऽन्येषां कर्माणूनां योगाभावे, बन्धविरहे चेत्यर्थः । अस्य आत्मनः। पुष्टिः उपष्टम्भकाणुसम्बन्धरूपा । कथं कुतः, भवेत् स्यात् , कथमपि नैव भवेत् , तथा च पुष्टिहेतुतया कर्मसिद्धिरावश्यकीत्यभिसन्धिः । अन्यत्र पुष्टेः स्थौल्यरूपत्वेऽप्यात्मनि तदसम्भवादात्मनि शक्त्याधानस्यैव वाच्यत्वेन कर्मण एव नामान्तरमिति ॥ ९८ ॥ अजन्यां शक्तिमदृष्टशब्दसंशब्दितां पराभिप्रेतामाशङ्कय प्रतिक्षिपति
अस्त्येव सा सदा किन्तु, क्रियया व्यज्यते परम् ।
आत्ममात्रस्थिताया न, तस्या व्यक्तिः कदाचन ॥९९॥ अस्त्येवेति । सा अदृष्टसंज्ञिता शक्तिः । सदा सर्वदा, अस्त्येव विद्यत