SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १९० शास्त्रवार्तासमुच्चयः। [प्रथमः त्वापेक्षया लघुभूतस्यादृष्टगतवैजात्यस्यैव कीर्तनादिनाश्यतावच्छेदकत्वकल्पनस्य युक्तत्वात् , अश्वमेधत्वादिघटितादृष्टत्वस्य कीर्तनादिनाश्यतावच्छेदकत्वं स्वाश्रयजनकत्वविशेषसम्बन्धेन सुखगतवैजात्यघटितादृष्टत्वस्य वा तथात्वमित्यत्र विनिगमकाभावाच्च, मयाऽश्वमेध-वाजपेयौ कृतावित्यादिसमूहालम्बनकीर्तनाचोभयोरेव वैजात्यावच्छिन्नयो शः, तत्र चाश्वमेधकीर्तननाशतावच्छेदकवैजात्यमन्यदन्यच्च वाजपेयकीर्तननाश्यतावच्छेदकवैजात्यमिति, तथा च न परोक्तसायदोषस्याप्यवकाशः, उभयकीर्तननाश्यतावच्छेदकस्यैकस्य वैजात्यस्याभ्युप. गमे तु प्रत्येककीर्तनतो विलक्षणमेव समूहालम्बनकीर्तनमिति तदानीं प्रत्येककीर्तनस्याभावात् प्रत्येककीर्तननाश्यस्यानाशप्रसङ्गात् तत्र प्रत्येककीर्तननाश्यतावच्छेदकवैजात्यस्याभ्युपगमे तु यत्रैकस्यैव कीर्तनं तत्र समूहालम्बनवैजात्यस्यापि भावेन तदवच्छिन्नस्यापि नाशे द्वितीयस्यापि तदवच्छिन्नस्य नाशप्रसक्तौ तत्प्रतिबन्धकान्यकल्पने गौरवं स्यात् । यच्च वैजात्यमनभ्युपगम्य तत्तत्कीर्तनाभावविशिष्टतत्तत्कर्मणस्तत्तत्फलं प्रति हेतुत्वमुपेयते तत्रापि विशिष्टस्य कारणत्वे विशेषणस्यापि कारणत्वमिति न्यायतस्तत्कीर्तनाभावस्यापि तत् तत् फलं प्रति कारणवमागतम् , कारणीभूताभावप्रतियोगित्वमेव प्रतिबन्धकत्वमिति तत् तत् फलं प्रति तत्तत्कीर्तनस्य प्रतिबन्धकत्वमिति गौरवं स्यादिति दिक् ॥ ९५ ॥ अदृष्ट एव प्रकारान्तरमाश्रित्यान्येषां वार्तान्तरमुपदर्शयति शक्तिरूपं तदन्ये तु, सूरयः संप्रचक्षते । अन्ये तु वासनारूपं, विचित्रफलदं तथा ॥ ९६ ॥ शक्तिरूपमिति । तत् अदृष्टाख्यं कर्म । अन्ये तु दर्शितवादिभिन्नाः पुनः। सूरयः पण्डिताः। शक्तिरूपं कर्तुस्तत्तत्कार्यकरणसामर्थ्यात्मकशक्तिस्वरूपम् । संप्रचक्षते सम्यग् व्यावर्णयन्ति । तु पुनः । अन्ये तेभ्योऽप्यतिरिक्ताः पण्डिताः । वासनारूपं तदित्यनुवर्तते । विचित्रफलदं नानाप्रकारकफलजनकम् । तथा उक्तवत् , 'संप्रचक्षते' इत्यनुवर्तते ॥ ९६ ॥ एतच्छक्तिपक्षप्रतिक्षेपकदूषणप्रकारमाश्रयतां प्रावचनिकानां वादान्तरमाह अन्ये त्वभिदधत्यत्र, स्वरूपनियतस्य वै । कर्तुर्विनाऽन्यसम्बन्धं, शक्तिराकस्मिकी कुतः ? ॥९७॥ अन्ये त्विति-प्रावचनिकाः पुनरित्यर्थः । अत्र शक्त्यात्मककर्माभ्युपगमे ।
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy