SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Wy स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १८९ भावसामानाधिकरण्यमिति, कीर्तननाश्यतावच्छेदकतया वैजात्यस्याकल्पनेऽपि च तत्तत्कीर्तनाभावविशिष्टतत्तत्कर्मत्वेन तत्तत्फलत्वेन कारणत्वम् , अदृष्टाख्यस्य तत्तत्कर्मणः सत्त्वेऽपि तत्तत्कीर्तने सति तदभावविशिष्टस्य तस्याभावादेव तत्फलानुत्पत्तिः, इत्थं च समूहालम्बनात्मकहरिगङ्गास्मरणजन्यापूर्वस्य गङ्गास्मृतिकीर्तनतो नाशे हरिस्मृतेरपि फलानवाप्तिः, तस्यानाशे तु गङ्गास्मृतेरपि फलावाप्तिरित्यस्य प्रसङ्गस्य नावकाशः, गङ्गास्मृतिकीर्तनाभावविशिष्टापूर्वस्याभावाद्, गङ्गास्मृतिजन्यफलस्यानुत्पादेऽपि हरिस्मृतिकीर्तनाभावविशिष्टहरिस्मृतिजन्यापूर्वस्य सद्भावाद् हरिस्मृतिजन्यफलसंभवादिति, नैयायिकमतसाम्राज्यादित्यत आह__ आत्मन इति । यतः यस्मात् कारणात् , तत् कर्म, आत्मनो व्यतिरिक्तम् आत्मनः सकाशाद् भिन्नद्रव्यतया व्यवस्थितम् , तथा चित्रभावं फलवैचित्र्यप्रयोजकवैचित्र्यशालि, मतं स्वीकृतं, जैनागमरहस्यविद्भिरिति शेषः । तत्र पौद्गलिकत्वे प्राञ्च इदमनुमान प्रकटयन्ति-'अदृष्टं पौद्गलिकम् , आत्मानुग्रहोपघातनिमित्तत्वात् , यदात्मनोऽनुग्रहोपघातनिमित्तं तत् पौद्गलिकं यथा शरीरम्' इति, आत्मधर्मत्वासम्भव एवास्याप्रयोजकत्वमपाकरोति, तदसम्भवश्चात्मधर्मत्वेऽस्य समवायसम्बन्धेन सुखं प्रति समवायसम्बन्धेनास्य कारणत्वं वाच्यम्, तथा च कायैकार्थप्रत्यासत्ति-कारणैकार्थप्रत्यासत्त्यन्यतरेण कार्यकारणस्य समवायिकारणत्वमिति कार्यैकार्थप्रत्यासत्त्या सुखं प्रति कारणस्यास्य सुखं प्रत्यसमवायिकारणत्वं प्रसज्येतेति, विशिष्यासमवायिकारणत्वलक्षणाभिधानं त्वननुगमदोषकलङ्कितमिति आत्मधर्माणां सुख दुःखादीनां मनसा प्रत्यक्षं स्वसंयुक्तसमवायसग्निकर्षबलात् परेषामनुमतमिति मनसः स्वसंयुक्तसमवायसन्निकर्षस्य धर्माधर्मयोरात्मधर्मत्वेऽस्त्येवेति तबलात् तयोर्मानसप्रत्यक्षापत्तेर्वारणाय विषयतासम्बन्धेन मानसप्रत्यक्षं प्रति तादात्म्यसम्बन्धेन तयोः प्रतिबन्धकत्वकल्पनमपि गौरवकरमतोऽदृष्टस्य पौगलिकत्वमेव युक्तं नाऽऽत्मगुणत्वमिति, पौगलिकस्यापि कर्मणो वैचित्र्यं बन्धहेतुत्ववैचित्र्येऽपि सति संक्रमकरणादिकृतं प्रवचनतत्त्वविदां सुज्ञानमेवेति चित्रस्वभावत्वमप्यदृष्टस्यानुपपन्नमिति पराकूतमाग्रहविजृम्भितमेव, तद्वैजात्यमात्राभाव इति घोषणाऽपि परस्य न युक्ता, कीर्तनादिनाश्यतावच्छेदकतया वैजात्यस्यावश्यकत्वात् । यदपि स्वाश्रयजन्यताविशेषसम्बन्धेनाश्वमेधत्वादिघटितस्यादृष्टत्वस्यैव कीर्तनादिनाश्यतावच्छेदकमिति नादृष्टगतवैजात्यं परिकल्पनीयमिति तदपि न शोभनम् , अश्वमेधत्वादिघटितादृष्ट
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy