SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः भूतधर्मस्य नीलादेस्तथात्वादर्शनादित्यर्थः । द्वित्वादीति - यथा भूतधमोंऽपि द्वित्वादि यस्यैवापेक्षा बुद्ध्या जनितं तस्यैव भोगजनकं तथाऽपूर्वमपि तद्धर्मः स्यादित्यर्थः । द्वित्वादेरप्यसाधारणत्वं नियतचेतनगुणोपग्रहेणैवेत्याहतस्यापीति । ननु भूतधर्मान्तरस्य साधारण्येऽप्यपूर्वं तद्धर्मस्तत्कार्यत्वमात्रैवासाधारणं स्यादित्यत आह- तथापीति । कार्यकारणभावमेवाह - शरीरादीनामिति । प्रकृतेऽपीति - यथा शरीरादीनां चेतनगुणबुद्ध्यादिसहितानां नियतभोगजनकत्वं तथा प्रकृतेऽपि तेषां तत्सहितानामेव तजनकत्वमस्त्विति कृतमपूर्वेणेत्यर्थः । शरीरादेरिति न शरीराद्युत्पत्तेः पूर्वं बुद्ध्यादिसम्भव इति तदन्यचेतनगुणा पूर्व - सिद्धिरित्यर्थः, 'देवदत्ताद्यशरीरं स्वाव्यवहितप्राक्कालवर्तिदेवदत्तसमवेतविशेषगुणजन्यं, कार्यत्वे सति तद्भोगसाधनत्वात्, तन्निर्मितस्रग्वत्' घटादीनां पक्षसमत्वान्न तैर्व्यभिचारः, न च संस्कारेणार्थान्तरम्, तस्य भोगजनकत्वेनाकल्पनात्, संस्काराजन्यत्वेन पक्षविशेषणाद् वेति भावः" इति । १८८ अदृष्टगतवैजात्ये मानाभावेन तस्य चित्रस्वभावत्वमपि न युज्यते, विजातादृष्टं प्रति कर्मणां विशिष्य कारणत्वस्यादृष्टवैजात्यसिद्धौ सत्यां कल्पने गौरवाच्च, न च— "कर्मनाशाजलस्पर्शात् करतोयाविलङ्घनात् । " गण्डकीबाहुतरणाद्, धर्मः क्षरति कीर्तनात् ॥ " [ ] इति । वचनप्रामाण्यात् कर्मनाशाजलस्पर्शादिनाश्यतावच्छेदकतया अदृष्टगतवैजात्यस्य धर्मत्वाख्यस्य, ब्रह्महत्यादिपापं प्रायश्चित्तादिनाऽपनुदतीति प्रायश्चित्तादिनाश्यतावच्छेदकतयाऽदृष्टगतवैजात्यस्याधर्मत्वस्य च सिद्धिः, अश्वमेध - वाजपेय यागादेर्ब्रह्महत्यादेश्च क्रियारूपस्य पूर्वमेव विनष्टत्वेन तस्य ततो विनाशासम्भवादिति वाच्यम्, तत्रादृष्टत्वस्य स्याश्रयजन्यता विशेष सम्बन्धेनाश्वमेधत्वादिघटितस्य वा कर्मनाशाजलस्पर्शादिनाश्यतावच्छेदकत्वात्, अन्यथा “मयाऽश्वमेघवाजपेयौ कृतौ, मया वाजपेय - ज्योतिष्टोमो कृतौ” इत्यादिकीर्तन नाश्यतावच्छेदक जातिसाङ्कर्यस्यापि संभवात्, यतः 'मयाऽश्वमेधवाजपेयौ कृतौ' इत्येवं स्वरूपकीर्तनेनाश्वमेधजन्यमपूर्वं नश्यति तथा वाजपेयजन्यमपूर्वं नश्यतीति तत्कीर्तननाश्यतावच्छेदकवैजात्यमश्वमेधजन्यापूर्वे वाजपेयजन्यापूर्वे च वर्तते, ज्योतिष्टोमजन्यापूर्वे च वर्तते, तथा च तयोर्वेजात्ययोर्वाजपेयजन्यापूर्वे मिथः सामानाधिकरण्यम्, अश्वमेधजन्यापूर्वे ज्योतिष्टोमजन्यापूर्वे च परस्परात्यन्ता
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy