SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १८७ भूतानां भूम्यादीनामित्यनुक्तौ भूतानामित्यस्यादृष्टानामित्यप्यर्थः सम्भवति, स्याद्वादिना पौद्गलिकत्वेनाभ्युपगतेष्वदृष्टेषु भूतविकारत्वेन भूतपदाभिधेयत्वसम्भवात् , तथा च भूतानां तत्स्वभावत्वादयमित्युत्तरं समीचीनमेवेत्याह कर्मणो भौतिकत्वेन, यद्वैतदपि साम्प्रतम् । आत्मनो व्यतिरिक्तं तचित्रभावं यतो मतम् ॥ ९५ ॥ कर्मण इति । कर्मणः ज्ञानावरणादेः, अदृष्टस्य वा । भौतिकत्वेन पौगलिकत्वेन । एतदपि चार्वाकोक्तं 'भूतानां तत्स्वभावत्वात् फलभेदः' इत्युत्तरमपि । यद्वेति प्रकारान्तरे । साम्प्रतं समीचीनम् । ननु कर्मणोऽदृष्टपदाभिधेयस्य भौतिकत्वमयुक्तम् , आत्मगतप्रतिनियतभोगनिर्वाहकस्यात्मधर्मस्यैवादृष्टस्य कल्पनात् , तदुक्तमुदयनाचार्यैः __"संभोगो निर्विशेषाणां, न भूतैः संस्कृतैरपि ।” एतदुपदर्शितं प्राक् , एतदभिप्रायेणैवेदमप्यभिहितं तैः "तथापि चेतन एवायं संस्क्रियते न भूतानीति कुतो निर्णयः" इति चेत् ? उच्यते-भोक्तृणां नित्यविभूनां सर्वदेहप्राप्तावविशिष्टायां विशिष्टैरपि भूतैर्नियामकाभावात् प्रतिनियतभोगासिद्धः, नहि तच्छरीरं तन्मनस्तानीन्द्रियाणि विशिष्टान्यपि तस्यैवेति नियमः, नियामकाभावात् , तथा च साधारणविग्रहवत्त्वप्रसङ्गः, न च भूतधर्म एव कश्चिञ्चेतनं प्रत्यसाधारणः, विपर्ययदर्शनात् , द्वित्वादिवदिति चेत् ? न-तस्यापि शरीरतुल्यतया पक्षत्वात् , नियतचेतनगुणोपग्रहेणैव तस्यापि नियमो न तु तजन्यतामात्रेण, स्वयमविशेषात् ; तथापि तजन्यतयैव नियमोपपत्तौ विपक्षे बाधकं किमिति चेत् ? कार्यकारणभावभङ्गप्रसङ्गः, शरीरादीनां चेतनधर्मोपग्रहेणैव तद्धर्मजननोपलब्धेः, तद्यथा-इच्छोपग्रहेण प्रयत्नो ज्ञानोपग्रहेणेच्छादयः, तदुपग्रहेण सुखादय इत्यादि; प्रकृतेऽपि चेतनगता एव बुद्ध्यादयो नियामकाः स्युरिति चेत् ? न-शरीरादेः प्राक् तेषामसत्त्वात् , तथा च निरतिशयाश्चेतनाः साधारणानि भूतानीति न मुक्तिनियम उपपद्यते” इति । __ अत्र वर्द्धमानोपाध्यायव्याख्यानं यथा-“भोक्तृणामिति-भोक्तृप्रत्यासत्तेरविशेषात् किञ्चिच्छरीरं कस्यचिदेव भोगं जनयतीति प्रतिनियतभोगान्यथानुपपत्त्या प्रतिनियतभोक्तृकर्मोपार्जितत्वं शरीरादावभ्युपेयमित्यर्थः, विशिष्टैरित्यभ्युपगमवादः । असाधारण इति-प्रतिनियतभोगजनक इत्यर्थः । विपर्ययेति
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy