________________
शास्त्रवार्तासमुच्चयः ।
अवश्यस्वी कर्तव्यत्वमदृष्टस्योपसंहरन्नाह - तस्मादवश्यमेष्टव्यमत्र हेत्वन्तरं परैः । तदेवादृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः ॥ ९३ ॥
wwwwwwwv
तस्मादिति यस्मादेवं तस्मात्, तुल्येऽप्यारम्भे फलवैलक्षण्यदर्शनादित्यर्थः । अत्र फलवैलक्षण्ये | हेत्वन्तरं दृष्टकारणव्यतिरिक्तकारणान्तरम् । परैः चात्रकैः अवश्यं गत्यन्तराभावेन नियमेन । एष्टव्यम् अभ्युपगन्तव्यम् । तदेव हेत्वन्तरमेव । शास्त्रकृतश्रमाः ऊहापोहाभ्यामध्ययनभावनाभ्यां शास्त्रे - दम्पर्यायावधारणप्रवणाः । अन्ये चार्वाकादिनास्तिकभिन्नाः, आस्तिका इति यावत् । अदृष्टम् अदृष्टसंज्ञितम् । आहुः कथयन्ति तदुक्तं भगवद्भिfioraiरै:
१८६
www
[ प्रथमः
" जो तुलसाहणाणं, फले विसेसो न सो विणा हेउं ।
कज्जत्तणओ गोयम ! घडो व्व हेऊ अ से कम्मं ॥” इति ।
*
[ विशेषावश्यके प्रथम गणधरवादे गाथा ८ - “यस्तुल्यसाधनानां फले विशेषो न स विना हेतुम् । कार्यत्वतो गौतम ! घट इव हेतुश्च तस्य कर्म ॥ १ ॥” इति संस्कृतम् ] ॥ ९३ ॥
अत्र पराभिप्रायमाशङ्क्य प्रतिक्षिपति
भूतानां तत्स्वभावत्वादयमित्यप्यनुत्तरम् ।
न भूतात्मक एवात्मेत्येतदत्र निदर्शितम् ॥ ९४ ॥
भूतानामिति । भूतानां राजादिपरिणत भूतानाम्, तत्स्वभावत्वात् विचित्र भोगोत्पादनस्वभावत्वात् अयं फलभेदः, इत्यपि एवं चार्वाकाभिधानमपि, अनुत्तरम् समीचीनोत्तरं न भवति, उत्तराभासमिति यावत्, कुत इत्यपेक्षायामाह - न भूतात्मक एवात्मेतीति-यत इति शेषः । अत्र पूर्वप्रघट्टके, निदर्शितं यस्मान्न भूतात्मक एवात्मेत्येवं प्राक् प्रदर्शितं तस्माद् राजादिपरिणतभूतानां विचित्र भोगजननस्वभावत्वात् फलभेदसमाधानं समाधानाभास इत्यर्थः, आत्मत्वेनैकजातीयानामात्मनां स्वभावभेदोऽदृष्टाधीन इत्यत्रैदम्पर्यम् ॥ ९४ ॥
"