________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१८५ कर्मवैचित्र्यमेव प्रकारान्तरेणोपपादयति
तथा तुल्येऽपि चारम्भे, सदुपायेऽपि यो नृणाम् । .
फलभेदः स युक्तो न, युक्त्या हेत्वन्तरं विना ॥ ९२ ॥ तथेति । तुल्येऽपि च समानेऽपि च । आरम्भ वाणिज्यादिकर्मणि कृष्यादिप्रयत्ने वा, कृष्यादिप्रयत्ने कृतेऽपि वृष्ट्यादिलक्षणसहकारिणोऽभावाद् धान्यादिसमृद्धिर्न भविष्यतीति दृष्टेनैवोपपत्तौ किं विचित्रादृष्टकल्पनयेत्यत आरम्भ विशिनष्टि-सदुपायेऽपीति-अकुण्ठितशक्तिकतदितरसकलकारणसमवहितेsपीत्यर्थः । नृणां मनुष्याणां चैत्र-मैत्रादीनाम् , लोके कार्यारम्भे मनुष्याणां प्राधान्यमिति नृणामित्युक्तम् , पशु-पक्ष्यादीनां स्वस्वोपयोगिकार्यसम्पादनाय प्रवृत्तिदृश्यते, तत्तत्कार्यसम्पत्तिस्तु कस्यचिद् भवति कस्यचिन्नेति तेषामप्यदृष्टवैचित्र्यसद्भावाधीने एवारम्भसाफल्य-वैफल्ये इति । फलमेदः सम्पदवास्यनवाप्तिरूपः, धान्यसम्पत्त्यसम्पत्तिरूपः, स्वल्पबहुधान्यसंपत्तिरूपो वा यः, उत्तरव्याख्यानादसम्पत्तेः सम्पत्त्यत्यन्ताभावस्याजन्यत्वेऽपि न क्षतिः । स हेत्वन्तरं विना दृष्टकारणव्यतिरिक्तकारणमन्तरेण । युक्त्या सम्यग्विचारेण युक्तो घटमानः, न न भवति, स्वभावादेव भविष्यतीति पादप्रसारिका न निस्ताराय, तथा सति सर्व स्वभावादेव विचित्रं भविष्यतीति कार्यकारणभावमात्रोच्छेदापत्तेः, युक्त्येत्यनन्तरं 'विचार्यमाणः' इति शेषो वा।
अनोपपत्तिः प्रकारान्तरेणाशय निरस्तोपाध्यायैरित्थम्-"अथाद्यप्रवृत्ताववैषम्येऽप्युत्तरकालं सामग्रीवैषम्यादेव कार्यवैषम्यमिति चेत् ? न-सामग्री“वैषम्यस्यापि हेत्वन्तराधीनत्वात्" इति । ___ व्याख्यानान्तरं च तैरेवेत्थमुपदर्शितम्-"अथवा, समानेऽप्यारम्भे एकजातीयदुग्धपानादौ यः फलभेदः-पुरुषभेदेन सुख-दुःखादितारतम्यलक्षणः; स हेत्वन्तरं विना-अतिरिक्तहेतुतारतम्यं विना, न युक्त इत्यर्थः; न चात्रापि क्वचिद् दुग्धादेः कर्कट्यादिवत् पित्तादिरसोद्बोधादुपपत्तिः, सर्वत्र तदापत्तेः; न च भेषजवत् तथा, ततः साक्षात् सुखादितौल्यात् , धातुवैषम्यादेरुत्तरकालत्वात् , पित्तादिरसोद्वोध्यधातुवैषम्यादिविरहितदुग्धपानत्वादिना सुखादिहेतुत्वे गौरवात् , अदृष्टप्रयोज्यजातिव्याप्यजात्यवच्छिन्नं प्रत्येव दुग्धपानादेर्हेतुत्वौचित्याचेति दिक्" इति ॥ ९२ ॥