SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८४ शास्त्रवार्तासमुच्चयः। [प्रथमः "चिरध्वस्तं फलायालं, न कर्मातिशयं विना । संभोगो निर्विशेषाणां, न भूतैः संस्कृतैरपि ॥" तस्मादस्त्यतिशयः कश्चित् , ईदृशान्येवैतानि स्वहेतुबलायातानि, येन नियतभोगसाधननीति चेत् ? तदिदममीषामतीन्द्रियं रूपं सहकारिभेदो वा? न तावदैन्द्रियकस्यातीन्द्रियं रूपं, व्याघातात् , द्वितीये स्वपूर्वसिद्धिः' इत्यादि। ___ अत्र वर्द्धमानोपाध्यायव्याख्यानमिदम् "अस्त्विति-न तु तजन्यमदृष्टमित्येवकारार्थः, तथा चादृष्टाधिष्ठातृत्वेनेश्वरानुमानमाश्रयासिद्धमिति भावः; क्षणिकत्वादिति-आशुतरविनाशित्वादित्यर्थः । चिरध्वस्तमिति-फलस्य स्वर्गादेः कालान्तरभावितया न तत्राशुविनाशिनः साक्षात्साधनत्वमिति प्रतीतसाधनत्वान्यथानुपपत्त्या तजन्यापूर्वकल्पनमित्यर्थः, अतिशयं विना चिरध्वस्तं कर्म न फलायालंसमर्थमिति योजना, साक्षात् साधनत्वाभावेऽपि साधनत्वस्य फलसमयपर्यन्तस्थायिव्यापारव्याप्तत्वादिति भावः । ननु चादृष्टसिद्धावपि भूतधर्म एव तदस्त्वित्यत आह-सम्भोग इति-सम्भोगः समीचीनो नियतो भोगः, निर्विशेषाणाम्-अदृष्टरूपविशेषरहितानामात्मनां न स्यात् , संस्कृतानां भूतानां साधारणत्वादित्यर्थः अत्र स्वहेतुबलोत्पन्नस्वरूपविशेषवन्ति शरीरादीनि नियतात्मभोगसाधनानि सन्त्विति शङ्कते-ईदृशानीति । एतद् विकल्प्य व्याघाता-ऽभिमतसिद्धिभ्यां परिहरति-तदिदमिति । रूपं-स्वरूपम् , अतीन्द्रियस्वभावत्वमित्यर्थः । सहकारिभेदोऽतीन्द्रियसहकारी, यद्वा रूपं-धर्मो जातिरूपो. ऽजातिरूपो वा?, आये न तावदिति-व्यक्तियोग्यतयैव जातेोग्यत्वादित्यर्थः" इत्यादि। अथ नरादिशरीरवैचित्र्यात् स्वोपादानकारणवैचित्र्यप्रभावाद् भोगवैचित्र्यं भविष्यति, किमदृष्टकल्पनयेति चेत् ? न-समवायेन विचित्रभोगं प्रति संयोगसम्बन्धेनैव विचित्रशरीरस्य कारणत्वस्य वाच्यतया संयोगसम्बन्धेन विचित्रशरीरस्याकाशादावपि सत्त्वेन तत्रापि भोगापत्तेः, शरीरोपष्टब्ध आत्मा सुखदुःखादिकं भुत इति आत्मना सह शरीरस्य यः संयोगविशेष उपष्टम्भक इत्याख्यायते तेन संयोगेन शरीरस्य भोग प्रति करणत्वम् , तादृशसंयोगेन चाकाशादौ न शरीरसत्त्वमिति नाकाशादौ भोगापत्तिरिति यधुच्यते, तदा यत्पुरुषादृष्टेन जनितो यच्छरीरेण सह तत्पुरुषस्य संयोगः स तस्यैव भोगं जनयतीत्यागत्वेन तादृशसंयोगप्रयोजकतयैवादृष्टसिद्धिरिति ॥ ९ ॥
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy