Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 253
________________ शास्त्रवार्तासमुच्चयः । "युक्तिर्मुक्तिप्रसरहरणी नास्ति का नास्तिकानां, सर्वा गर्वात् किमु न दलिता सा नयैरास्तिकानाम् ? । ध्वस्तालोका किमु न जगति ध्वान्तधारा बत स्यात्, किं नोच्छेत्री रविकरततिर्दुः सहोदेति तस्याः ? ॥ १ ॥ वार्तामिमामत्र निशम्य सम्यक्, त्यक्त्वा रसं नास्तिक दर्शनेषु । ऐकान्तिकाऽऽत्यन्तिकशर्महेतुं, श्रयन्तु वादं परमार्हतानाम् ॥ २ ॥ इति, इति श्रीतपोगच्छाधिपति शासनसम्राट् सर्वतन्त्रस्वतन्त्र-जगद्गुरुश्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति शास्त्रविशारद -कविरत्नेतिपदालङ्कतेन विजयलावण्य सूरिणा विरचितायां स्याद्वादवाटिकाभिधानायां शास्त्रवार्तासमुच्चयटीकायां प्रथमः स्तबकः ॥ एतन्नास्तिक दर्शन - खण्डनप्रथिताऽऽत्मसत्त्वधीस्थिरता ॥ मुक्त्यङ्गनावलोकन - निरता जनताऽऽश्रिताऽऽस्तिकता ॥ १ ॥ यस्यास्था जिनदर्शितात्ममनने स्याद्वादराद्धान्तगा, २१० भक्तिर्यस्य गुरौ स्वकार्यनिपुणाऽत्यन्तप्रकृष्टोदया । प्राचीनोक्तिसमष्टिसङ्घटनया नव्योक्तिकान्ताऽनघा, वाणी यस्य सतर्कमानकलिता सन्नीतिमार्गाश्रिता ॥ २ ॥ व्याख्यानद्वयमात्रतत्त्वमननैकान्तोदया नास्तिको– क्तिवातोत्थकुनीतिनाशनिपुणा सच्छास्त्रवार्ताश्रिता । व्याख्या सूरिवरेण तेन रचिता लावण्यनाम्ना त्वियं, विज्ञानां मुदमादधातु प्रथमे खण्डेऽपि लब्धोदया ॥ ३ ॥ wwwwm

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300