Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 201
________________ शास्त्रवातांसमुच्चयः [ प्रथमः स्वमतमभिधास्ये' इत्येवंरूपां कारयति, तथा प्रमाणाग्रगण्यजैनागमबद्धबुद्धिः स्याद्वाद्यपि सर्वहितेच्छुः 'ज्ञानस्य परप्रकाश्यत्वं युक्त्यपेतं स्वकदाग्रहगृहीतं परित्यज्य स्वसंविदितत्वं स्वीकरोतु' इत्येवंरूपां शिक्षां नैयायिकाय दातुमर्हति तदर्थं युक्तिस्तोमाभिधानं ज्ञानस्य स्वसंविदितत्वे आवश्यकम्, तदुक्तमुपाध्यायैः mmmmm १५८ mmmm “यथा कथायां प्रविशन् परस्य नैयायिकः कारयति प्रतीक्षाम् । तथा यथार्थागमबद्धबुद्धिर्दास्यामि नास्यापि किमेष शिक्षाम् ॥ १ ॥” इति । wwwm " ज्ञानस्य स्वविषयत्वे युक्तिगुम्फन मित्थम्, तथाहि - 'घटमहं जानामि, पटमहं जानामि' इति ज्ञानं सर्वलोकानुभवसाक्षिकं नापलपितुं शक्यते, तत्र प्रथमं चक्षुरादीन्द्रियसन्निकर्षाद् 'अयं घटः' इति ज्ञानम्, तस्य मनस्सन्निकर्षाद् 'घटमहं जानामि' इति ज्ञानम्, तस्यापि मनस्सन्निकर्षाद् 'घटज्ञानमहं जानामि' इत्येवमभ्युपगमे पूर्वापरज्ञानकल्पनागौरवं स्याद्, अतश्चक्षुरादीन्द्रियसन्निकर्षादुपजायमानं प्राथमिकज्ञानमेव 'घटमहं जानामि, घटज्ञानमहं जानामि' इत्युभयाकारं कर्तृ-कर्म-क्रियाऽवगाहि सत् स्वविषयत्वे प्रमाणम्, एतेन 'स्वविषयत्वे सिद्धे पूर्वापरज्ञानकल्पनागौरवसहकृतं ज्ञानगोचरताया ग्राहकं प्रत्यक्षं स्वप्रकाशतायां प्रमाणम् तेन च मानेन तस्य स्वविषयतासिद्धिरित्यन्योऽन्याश्रयः इत्यपास्तम्, ज्ञानविषयत्वेनानुभूयमानस्य 'इदं ज्ञानं जानामि' इति ज्ञानस्यार्थविषयत्वेनानुभूयमानप्राच्यज्ञानेन समं लाघवादैक्यसिद्धौ स्वप्रकाशतासिद्धेः, घटविषयक ज्ञानस्य 'घटमहं जानामि' इत्यनुभवः पूर्वकाले, तदुत्तरकाले च घटविषयकज्ञानविषयकज्ञानस्य 'घटज्ञानमहं जानामि' इत्यनुभव इत्येवं कालभेदेनोभयानुभवस्य शपथप्रत्यायनीयत्वात् नन्वेवं ज्ञानस्य 'इदं जानामि, इदं ज्ञानं जानामि' इत्युभयाकारत्ववद् 'इदं ज्ञानज्ञानं जानामि, इदं ज्ञानज्ञानज्ञानं जानामि' इत्याद्याकारत्वमपीति घटज्ञानज्ञानाद्यनन्ताकारत्वं प्रसज्येतेति चेत् ? न घटज्ञानज्ञानादिकमपि घटज्ञानं भवत्येव विषयविनिर्मुक्तस्य केवलज्ञानस्य भानासम्भवाद्, अतो घटज्ञानज्ञानादिविषयताया अपि वस्तुतो घटज्ञानविषयताऽनतिरेकात्, एकमेव ज्ञानं घटज्ञानविषयत्वेन विवक्षितं सद् 'घटज्ञानं जानामि' इति व्यपदिश्यते, घटज्ञानज्ञान विषयत्वेन विवक्षितं सद् 'घटज्ञानज्ञानं जानामि' इति व्यपदिश्यते, इत्येवमभिलापभेदस्य विवक्षाधीन - त्वात्, तत्र चात्मनो ज्ञानाश्रयत्वरूपं ज्ञानं प्रति कर्तृत्वम्, घटादेर्विषयस्य "

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300