Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 206
________________ स्याद्वादवाटिकाटीका सङ्कलितः १६३ न तु घटे, अतस्तत आत्मनि प्रवृत्तिः प्रसज्येत घटे च प्रवृत्त्यनुपपत्तिः स्यादतो न घटज्ञानं स्वप्रकाश इति वाच्यम्, तद्रजतमिदं द्रव्यमिति समूहालम्बनात्मकज्ञानमपि तत्राविशिष्टे रजतत्वप्रकारकं द्रव्यत्व प्रकार के दन्त्वावच्छिन्नविशेष्यकं चेति तस्य मुख्यविशेष्यतया पुरोवर्तिनि रजते सत्त्वात् ततस्तत्र प्रवृत्तिः स्यात्, तद्वारणाय प्रवृत्तिविषयविशेष्यकत्वावच्छेदेनेष्टतावच्छेदकप्रकारकत्ववज्ज्ञानस्य प्रवृत्तिहेतुत्वं वाच्यम्, निरुक्तसमूहालम्बनज्ञानं च न प्रवृत्तिविषयविशेष्यकत्वावच्छेदेनेष्टतावच्छेदकप्रकारकत्ववदतस्ततो न प्रवृत्त्यापत्तिः, किन्तु यथेदं रजतमिति ज्ञानात् प्रवृत्तिस्तथाऽस्मिन् रजतत्वमिति ज्ञानादपि प्रवृत्तिर्भवतीत्यत इष्टतावच्छेदकविशेष्यकत्वावच्छेदेन प्रवृत्तिविषयकप्रकारकत्ववज्ज्ञानस्यापि प्रवृत्तिहेतुत्वं विनिगमनाविरहाद् वाच्यम्, तयोः पृथग्रूपेण कारणत्वं व्यभिचारान्न संभवतीत्यत इष्टतावच्छेदकप्रवृत्तिविषयवैशिष्ट्यावगाहित्वेनैकरूपेण हेतुत्वस्यौचित्यात् उक्तरूपस्योभयसाधारणत्वात् यदा चोक्तरूपेणेष्टतावच्छेदकविशेष्यकप्रवृत्तिविषयप्रकारकज्ञानमपि प्रवृत्तौ हेतुः, तदा तस्य मुख्यविशेष्यतयेष्टतावच्छेदक एव सत्त्वं न प्रवृत्तिविषय इति न मुख्यविशेष्यत्वं कारणतावच्छेदकसम्बन्धः संभवतीत्यात्मनिष्ठप्रत्यासत्त्यैव तयोः कार्यकारणभाव इति स्वप्रकाशेsपि व्यवसायस्य प्रवृत्तिजनकत्वं नानुपपन्नमिति । " " स्तबकः 1 यत्तु 'वह्निव्याप्यधूमवत्पर्वतवान् देश' इति परामशीत् पर्वतो वह्निमानित्यनुमितेरनुदयाद् वह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्न मुख्यविशेष्यताकनिश्चयत्वेन परामर्शस्यानुमितिहेतुत्वम्, मुख्यत्वं च विशेष्यतायां प्रकारतानात्मकत्वम्, अनन्तराभासमानसमानाधिकरणैकज्ञानीयविषयत्वयोरभेद इति निरुक्त परामर्श पर्वतत्वावच्छिन्नविशेष्यता देशत्वावच्छिन्न विशेष्यता निरूपिता प्रकार तात्मिकेति न मुख्येति नोक्तपरामर्शस्योक्तकारणतावच्छेदकधर्माक्रान्तत्वमिति नातोऽनुमित्यापत्तिः, एवं च स्वप्रकाशनये परामर्शस्य 'वह्निव्याप्यधूमवत्पर्वतमहं जानामि' इत्याकारकस्य या पर्वतत्वावच्छिन्नविशेष्यता स ज्ञानत्वावच्छिन्नविशेष्यतानिरूपित विषयित्वसम्बन्धावच्छिन्नप्रकारतात्मिकैव वह्निव्याप्य - धूमवत्पर्वतस्य विषयितासम्बन्धेन ज्ञाने विशेषणत्वादिति निरुक्तकारणतावच्छेदकधर्मानाक्रान्तादुपरामशीदनुमितिर्न स्यादतो ज्ञानातिरिक्तनिष्ठविशेष्यता निरूपितप्रकारतानात्मकत्वलक्षणमेव मुख्यत्वं निवेशनीयमिति गौरवम्' इति, ज्ञानस्य व्यवसायानुव्यवसायोभयाकारत्वेऽप्यविरोधात्, तन्न - स्वप्रकाश्यस्य

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300