________________
स्याद्वादवाटिकाटीका सङ्कलितः
१६३
न तु घटे, अतस्तत आत्मनि प्रवृत्तिः प्रसज्येत घटे च प्रवृत्त्यनुपपत्तिः स्यादतो न घटज्ञानं स्वप्रकाश इति वाच्यम्, तद्रजतमिदं द्रव्यमिति समूहालम्बनात्मकज्ञानमपि तत्राविशिष्टे रजतत्वप्रकारकं द्रव्यत्व प्रकार के दन्त्वावच्छिन्नविशेष्यकं चेति तस्य मुख्यविशेष्यतया पुरोवर्तिनि रजते सत्त्वात् ततस्तत्र प्रवृत्तिः स्यात्, तद्वारणाय प्रवृत्तिविषयविशेष्यकत्वावच्छेदेनेष्टतावच्छेदकप्रकारकत्ववज्ज्ञानस्य प्रवृत्तिहेतुत्वं वाच्यम्, निरुक्तसमूहालम्बनज्ञानं च न प्रवृत्तिविषयविशेष्यकत्वावच्छेदेनेष्टतावच्छेदकप्रकारकत्ववदतस्ततो न प्रवृत्त्यापत्तिः, किन्तु यथेदं रजतमिति ज्ञानात् प्रवृत्तिस्तथाऽस्मिन् रजतत्वमिति ज्ञानादपि प्रवृत्तिर्भवतीत्यत इष्टतावच्छेदकविशेष्यकत्वावच्छेदेन प्रवृत्तिविषयकप्रकारकत्ववज्ज्ञानस्यापि प्रवृत्तिहेतुत्वं विनिगमनाविरहाद् वाच्यम्, तयोः पृथग्रूपेण कारणत्वं व्यभिचारान्न संभवतीत्यत इष्टतावच्छेदकप्रवृत्तिविषयवैशिष्ट्यावगाहित्वेनैकरूपेण हेतुत्वस्यौचित्यात् उक्तरूपस्योभयसाधारणत्वात् यदा चोक्तरूपेणेष्टतावच्छेदकविशेष्यकप्रवृत्तिविषयप्रकारकज्ञानमपि प्रवृत्तौ हेतुः, तदा तस्य मुख्यविशेष्यतयेष्टतावच्छेदक एव सत्त्वं न प्रवृत्तिविषय इति न मुख्यविशेष्यत्वं कारणतावच्छेदकसम्बन्धः संभवतीत्यात्मनिष्ठप्रत्यासत्त्यैव तयोः कार्यकारणभाव इति स्वप्रकाशेsपि व्यवसायस्य प्रवृत्तिजनकत्वं नानुपपन्नमिति ।
"
"
स्तबकः
1
यत्तु 'वह्निव्याप्यधूमवत्पर्वतवान् देश' इति परामशीत् पर्वतो वह्निमानित्यनुमितेरनुदयाद् वह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्न मुख्यविशेष्यताकनिश्चयत्वेन परामर्शस्यानुमितिहेतुत्वम्, मुख्यत्वं च विशेष्यतायां प्रकारतानात्मकत्वम्, अनन्तराभासमानसमानाधिकरणैकज्ञानीयविषयत्वयोरभेद इति निरुक्त परामर्श पर्वतत्वावच्छिन्नविशेष्यता देशत्वावच्छिन्न विशेष्यता निरूपिता प्रकार तात्मिकेति न मुख्येति नोक्तपरामर्शस्योक्तकारणतावच्छेदकधर्माक्रान्तत्वमिति नातोऽनुमित्यापत्तिः, एवं च स्वप्रकाशनये परामर्शस्य 'वह्निव्याप्यधूमवत्पर्वतमहं जानामि' इत्याकारकस्य या पर्वतत्वावच्छिन्नविशेष्यता स ज्ञानत्वावच्छिन्नविशेष्यतानिरूपित विषयित्वसम्बन्धावच्छिन्नप्रकारतात्मिकैव वह्निव्याप्य - धूमवत्पर्वतस्य विषयितासम्बन्धेन ज्ञाने विशेषणत्वादिति निरुक्तकारणतावच्छेदकधर्मानाक्रान्तादुपरामशीदनुमितिर्न स्यादतो ज्ञानातिरिक्तनिष्ठविशेष्यता निरूपितप्रकारतानात्मकत्वलक्षणमेव मुख्यत्वं निवेशनीयमिति गौरवम्' इति, ज्ञानस्य व्यवसायानुव्यवसायोभयाकारत्वेऽप्यविरोधात्,
तन्न - स्वप्रकाश्यस्य