SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः " अनुव्यवसायाकारे तस्मिन् पर्वतत्वावच्छिन्नविशेष्यताया ज्ञानत्वावच्छिन्नविशेष्यतानिरूपितप्रकारतात्मकत्वेऽपि व्यवसायाकारे तत्र पर्वतत्वावच्छिन्न विशेष्यताया निरुक्तप्रकारतानात्मकत्वेन तामुपादाय निरुक्तकारणतावच्छेदकधर्माक्रान्तात् परामर्शादनुमित्युत्पत्तिसम्भवात् विभिन्नविषयकप्रत्यक्षानुमितिसामग्र्यो रेकदा समवधाने ऽनुमितिरेवोपजायते, न तु प्रत्यक्षमिति विभिन्नविषयकप्रत्यक्षं प्रत्यनुमितिसामग्र्याः प्रतिबन्धकत्वं युक्तिसिद्धम्, तथा च परप्रकाशवादिनो नैयायिकस्य मते ज्ञानमानसे वह्नयनुमितिसामग्र्यादेः प्रतिबन्धकत्वकल्पने महागौरवात्, घटचाक्षुषे सति चाक्षुषसाग्र्यां सत्यां घटचाक्षुषस्य मानसप्रत्यक्षस्वरूपस्यानुव्यवसायस्यानुपपत्तेश्च मानसप्रत्यक्षे बहिरिन्द्रियजन्यप्रत्यक्ष सामग्र्याः प्रतिबन्धकत्वात् घटचाक्षुषोत्पत्तिकाले चक्षुर्विषयसंयोगस्य सवेऽपि चक्षुमनोयोगलक्षणचाक्षुषप्रत्यक्षकारणं नास्तीति तद्घटितचाक्षुषप्रत्यक्ष सामग्र्यभावादेव तदनन्तरं चाक्षुषस्य मानसमिति कल्पनायां मानाभावात्, तदानीं विलक्षण एव बहिरिन्द्रियेण मनोयोगो यस्य बहिरिन्द्रियजन्यप्रत्यक्षजनकत्वं न भवतीत्यपि कल्पयितुमशक्यम्, घटदर्शनोत्तरमाहत्यैव पटदर्शनात्, तथा चक्षुर्मनोयोगान्तरादिकल्पनयाऽतिगौरवात् । न च स्याद्वादिनोऽपि स्वविषयकत्वनियामक हेतुकल्पने गौरवम्, आलोकस्य प्रत्यक्ष आलोकान्तरानपेक्षत्ववत् स्वभावत एव ज्ञानस्य स्वसंविदितत्वात् । अस्तु वा, स्व- परप्रकाशनशक्तिभेदः, तथापि न गौरवम्, फलमुखत्वात् । " १६४ यदपि 'ज्ञानस्य पूर्वमनुपस्थितत्वात् कथं प्रकारत्वम् ?' इति, तन्न -तस्यात्मवित्तिवेद्यत्वात्, 'अहं सुखी' इत्यत्रात्मभानेऽपि ज्ञानं न भासते इति नात्मवित्तिवेद्यं ज्ञानमिति न वाच्यम्, 'अहं सुखी' इत्यस्यापि 'अहं सुखं साक्षात्करोमि इत्याकारत्वेन ज्ञानभानस्य तत्र सद्भावात्, अनभ्यासादिदोषेण तत्र 'सुखं साक्षात्करोमि इत्यनभिलापात् । प्रत्यक्षविषयता नियामकस्येन्द्रियसन्निकर्षस्य ज्ञानोत्पत्तितः प्राक् ज्ञानेऽभावान्न ज्ञानस्य स्वप्रकाशलक्षणप्रत्यक्षसम्भव इति पराभिप्रेतमपि न सम्यक्, अलौकिकप्रत्यक्षविषयत्वस्यापि प्रत्यक्षविषयतासामान्यान्तर्गताया तस्यालौकिकेन्द्रियसन्निकर्षमन्तरेणापि भावेन व्यभिचारेणेन्द्रियसन्निकर्षस्य प्रत्यक्षविषयतासामान्य नियामक - स्वासंभवात् । लौकिकप्रत्यक्ष विषयता नियामकत्वमपीन्द्रियसन्निकर्षस्य न संभ
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy