________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१६५ वति, दोषविशेषप्रभवप्रत्यक्षविषयत्वस्यापि 'शके पीतत्वं साक्षात्करोमि' इत्यनुभवसिद्धविषयतात्वेन लौकिकविषयतारूपतया तस्येन्द्रियसन्निकर्षमन्तरेणापि भावेन व्यभिचारात् , इन्द्रियसन्निकर्षजन्यप्रत्यक्षविषयतैव लौकिकविषयतात्वेन पराभिप्रेता, ज्ञाने स्वविषयता च नेन्द्रियसन्निकर्षजन्यप्रत्यक्षविषयता, स्वप्रकाशप्रत्यक्षस्येन्द्रियसन्निकर्षाजन्यत्वाद् , एवं च लौकिकप्रत्यक्षविषयतायामिन्द्रिय सन्निकर्षस्य नियामकत्वेऽपि तदभावाल्लौकिकप्रत्यक्षविषयतैव ज्ञाने न स्थात् , न तु प्रत्यक्षविषयतासामान्यम् , तत्रेष्टापत्तिरेव स्वप्रकाशवादिनः । नन्वेवं ज्ञाने लौकिकविषयत्वस्याभावे तनियम्या 'साक्षात्करोमि' इति धीस्तत्र न स्यात् , न चेयमिष्टापत्तिः, 'ज्ञानं साक्षात्करोमि' इत्यनुभवस्य सर्वजनसिद्धत्वादिति चेत् ? न-स्पष्टताख्यविषयताया एव साक्षात्करोमीति धीनियामकत्वात् , सा च सम्बन्धविशेषेण स्वप्रतियोग्यावृतज्ञानविषयत्वलक्षणेन विषयनिष्ठस्य प्रत्यक्षप्रतिबन्धकज्ञानावरणापगमस्य शक्तिविशेषस्य वा नियम्या सम्भवत्येव ज्ञाने इति न किञ्चिदनुपपन्नम् ; अभेदेऽपि घटाभावे यथा घटाभावस्य विशेषणत्वं तथा ज्ञानेऽपि स्वविषयत्वमनिर्वचनीयात् स्वभावविशेषात् , अनिर्वचनीयस्य स्वभावविशेषस्याख्यातुमशक्यस्यापि प्रत्याख्यातुमशक्यत्वात् ।
स्वव्यवहारशक्तत्वं स्वविषयत्वमिति तु न युक्तम् , स्वव्यवहारशक्तस्याप्यास्मनः स्वविषयत्वाभावात् , शक्तेः पदार्थान्तरत्वेनात्माश्रयोद्धारेऽपि तस्या अनन्यथासिद्ध नियतपूर्ववर्तित्वज्ञानव्यङ्ग्यत्वेन स्वव्यवहारं प्रत्यनन्यथासिद्ध. नियतपूर्ववर्तित्वस्य ज्ञाने सति स्वव्यवहारशक्तिमत्त्वस्य ज्ञानं, स्वव्यवहारशक्ति. मत्त्वलक्षणकारणतावच्छेदकज्ञाने चानन्यथासिद्ध नियतपूर्ववर्तित्वलक्षणकारणत्वस्य ज्ञानमित्येवमन्योऽन्याश्रयाच्च । यत्र प्रत्यक्षविषयत्वं तत्र प्रत्यक्षजनकत्वमिति नियमात् स्वप्रकाशात्मकप्रत्यक्षाजनके स्वस्मिन् तद्विषयत्वं न स्यादित्यपि पराभिप्रेतं न युक्तम् , ईश्वरप्रत्यक्षं नित्यमिति न तजनकं गगनादिकं, भवति च तद्विषय इति व्यभिचारेणोक्तनियमासंभवात् । यदि लौकिकविषयत्वेनेन्द्रियग्राह्यत्वं भवेत् तदा ज्ञानस्यापि लौकिकविषयत्वेनेन्द्रियग्राह्यत्वप्रसिद्धौ बहिरिन्द्रियग्राह्यत्वबाधात् परिशेषान्मनोग्राह्यत्वसिद्ध्या स्वप्रकाशत्वं न भवेत् , न चैवम् , शक्तिविशेषेणैवेन्द्रियग्राह्यत्वात् , लौकिकविषयत्वेनेन्द्रियग्राह्यत्वाभावात् , अतीन्द्रिये ज्ञानादाविन्द्रियग्राह्यत्वमेवापाद्यम् , तदापादकस्य शक्ति