SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १६६ शास्त्रवासिमुच्चयः। [प्रथमः विशेषस्य तत्राभावादेव तदापादनं न संभवतीति, शेषस्यैवेन्द्रियग्राह्यस्वनियामकत्वे लौकिकविषयत्वेनान्यथासिद्धेश्च । एतेन 'ज्ञानमानसानभ्युपगमे धर्मादीनामिव तस्यायोग्यत्वाय मानससाक्षात्कारप्रतिबन्धकत्वकल्पने गौरवम्' इति नव्यमतं निरस्तम् , 'अयोग्यत्वस्य प्रतिबन्धकत्वेऽविश्रामात् स्वरूपायोग्यतयैव तत्त्वात् ,' इति यौक्तिकाः। स्वप्रकाशनये सर्वेषां ज्ञानानां स्वांशे प्रत्यक्षत्वेनानुमित्यादौ साङ्कर्यात् प्रत्यक्षत्वं जातिर्न स्यादिति त्विष्टापादनरूपत्वान्न दोषाय, ज्ञानजन्यतानवच्छेदकतद्विषयताकत्वात्मकोपाधिरूपस्यैव प्रत्यक्षत्वस्याभ्युपगमात् , तद्विषयताया ज्ञानजन्यतानवच्छेदकत्वं च स्वावच्छिन्नजन्यतानिरूपितजनकताश्रयज्ञानोपहितवृत्तित्वविशिष्टज्ञानजन्यतावच्छेदकभिन्नत्वम् , तेन यज्ज्ञानं सर्वाशे लौकिक तत्रेन्द्रियसन्निकर्षजन्यज्ञानत्वस्य प्रत्यक्षत्वरूपत्वेऽपि यच्च किञ्चिदशेऽलौकिक किञ्चिदंश च लौकिकं तस्य यदंशेऽलौकिकं तदंशे प्रत्यक्षत्ववारणाय ज्ञानजन्यतावच्छेदकतद्विषयताकत्वस्य यथाश्रुतस्यैव प्रत्यक्षत्वरूपत्वे किञ्चिदंशेऽलौकिकस्य वह्निलाकिकप्रत्यक्षस्य वह्वयंशेऽपि प्रत्यक्षत्वं न स्यात् , वह्निविषयताया 'वह्निव्याप्यधूमवान् पर्वतः' इति परामर्शजन्यतावच्छेदकतया ज्ञानजन्यतावच्छेदकतद्विषयताकत्वाभावात् , निरुक्तविवक्षायां च वह्निविषयताकत्वावच्छिन्नजन्यतानिरूपितजनकताश्रयपरामर्शोपहितवृत्तित्वविशिष्टा वह्नयनुमितीयवह्निविषयतैव भवति, न तु प्रत्यक्षीयवह्निविषयतेति तादृशोपहितवृत्तित्वविशिष्टज्ञानजन्यतावच्छेदकभिन्नत्वं तत्रास्तीति भवति वह्नयंशे तस्य प्रत्यक्षत्वम् , ज्ञानजन्यतावच्छेदकत्वोपलक्षितोद्देश्यताविधेयताद्यात्मकविषयताभिन्नत्वं वा तत्त्वम् , वह्निलौकिकप्रत्यक्षीयवह्निविषयता तु वह्निविषयतात्वेन परामर्शात्मकज्ञानजन्यतावच्छेदिकाऽपि नोद्देश्यता-विधेयताद्यात्मिकेति तद्भिन्नत्वं तत्रास्तीति भवति वह्निलौकिकप्रत्यक्षस्य वह्नयंशे प्रत्यक्षत्वम् , तेनापूर्वचैत्रत्वादिविशिष्टविषयकप्रत्यक्षेऽपूर्वचैत्रत्वादिविषयकानुमित्यादेः कदाप्यनुत्पादेनापूर्वचैत्रत्वादिविशिष्टविषयकत्वावच्छिन्नजन्यतानिरूपितजनकताश्रयज्ञानाप्रसिद्धया तदुपहितवृत्तित्वविशिष्टज्ञानजन्यतावच्छेदकभिन्नत्वस्याप्रसिद्धत्वेन तस्यापूर्वचैत्रत्वादिविशिष्टांशे प्रत्यक्षत्वं न स्यात् , एवमनुमितौ पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपकानुमितित्वं परामर्शजन्यताव
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy