________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः च्छेदकमिति पक्षतावच्छेदकावच्छिन्नविषयताकत्वमपि परामर्शजन्यतावच्छेदकम् , तथा च 'अहमेतत्क्षणवर्तिज्ञानवान् तत्सामग्रीतः' इत्यनुमितावहंविषयकत्वस्यापि ज्ञानजन्यतावच्छेदकत्वात् स्वावच्छिन्नजन्यतानिरूपितजनकताश्रयज्ञानोपहितवृत्तित्वस्यापि तत्र सत्त्वात् तद्भिन्नत्वाभावेन प्रत्यक्षत्वं तदंशे न स्याद् , अनन्तरनिरुक्तोक्तौ च ज्ञानजन्यतावच्छेदकत्वोपलक्षितोद्देश्यता-विधेयताद्यात्मकविषयताभिन्नत्वस्यापूर्वचैत्रत्वाद्यवच्छिन्नविषयतायां सत्त्वाद् 'अहमेतत्क्षणवर्तिज्ञानवान्' इत्यनुमितिमानहमित्यनुमितिनिष्ठप्रकारतानिरूपितविशेष्यतात्मकाहं विषयतायां सत्त्वात् तदादाय तदंशे प्रत्यक्षत्वमुपपद्यत इति वदन्ति । वस्तुतः स्पष्टताख्यविषयतैव प्रत्यक्षत्वम् , अत एव 'पर्वतो वह्निमान्' इत्यनुमितेः स्वांशे प्रत्यक्षत्ववत् पर्वतांशेऽपि स्पष्टतया प्रत्यक्षत्वम् , इति 'वहिं न साक्षात्करोमि' इतिवत् 'पर्वतं न साक्षात्करोमि' इति न धीः, किन्तु 'वह्निमनुमिनोमि, पर्वतं साक्षात्करोमि' इत्येव धीः, अत एव च प्रमाणनयतत्त्वालोकालङ्कारे देवसूरिभिः-'स्पष्टं प्रत्यक्षम्' [२. १.] इति प्रत्यक्षलक्षणं सूत्रितम् , ज्ञानार्णवे तु
"ता प्रत्यक्षं परोक्षं च, प्रत्यक्षं त्वक्षमात्रजम् ।
यत् त्विन्द्रियोपलब्धिस्तत् , तन्न यत् स्पष्टतैव सा ॥" इति श्लोकव्याख्यायां-"वस्तुत इन्द्रियजन्यज्ञानत्वं न प्रत्यक्षत्वम् , तन्मते ज्ञानमात्रस्य मनोरूपेन्द्रियजन्यत्वात् , न चेन्द्रियत्वेनेन्द्रियजन्यत्वं विवक्षितम् , इन्द्रियत्वस्य प्रत्यक्षघटितत्वेन तेन रूपेणाहेतुत्वात् , पृथिवीत्वादिना साङ्कर्येण तस्याजातित्वात् , ईश्वरज्ञानेऽव्याप्तेश्व; नापि ज्ञानाकरणकज्ञानत्वम् , जन्यप्रत्यक्षस्यादृष्टद्वाराऽस्मदादिज्ञानस्येश्वरज्ञानस्य वा जन्यत्वेनाव्याप्तिवारणायादृष्टाद्वारकत्वविशेषणदानस्याऽऽवश्यकत्वेऽपि निदिध्यासनद्वारा मननजन्ये तत्त्वज्ञानेऽव्याप्तः, विजातीयादृष्टद्वारा मननस्य तहेतुत्वापेक्षया विजातीयनिदिध्यासनद्वारैव तद्धेतुत्वौचित्यात् ; नापि जन्यधीजन्यमात्रवृत्तिजातिशून्यज्ञानत्वम् , जन्यधीमात्रस्यादृष्टद्वारा जन्यधीजन्यत्वात् , साक्षात्तजन्यत्वविवक्षणे च स्मृतावतिव्याप्तेः, अदृष्टाद्वारकत्वविशेषणे जन्यपदवैयर्थ्यात्, अनुमित्यादेरप्यदृष्टद्वारा हविर्विषयकव्याप्तिज्ञानादिजन्यत्वाच्च, अदृष्टव्यापारानिरूपितजन्यधीजन्यतावन्मात्रवृत्तिजातिशून्यत्वविवक्षणेऽपि जन्यधीमात्रस्य कालिकेन जन्यधी