SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः जन्यत्वात् , सामानाधिकरण्यप्रत्यासत्या जन्यत्वविवक्षाऽऽवश्यकत्वे जन्यपदवैयर्थ्यात्, किञ्चैतानि लक्षणानीतरभेदोपयोगीनि, न तु व्यवहारोपयोगीनि । अथोभयोपयोगि साक्षात्कारित्वमेव तल्लक्षणमस्तु, तच्च साक्षात्करोमीति प्रतीतिसिद्धौ जातिविशेषः, निर्विकल्पकेश्वरज्ञानयोश्च धर्मिग्राहकमानसिद्धं तदिति चेत् ? नूनं स्पष्टतैव तत् , 'साक्षात्करोमि, स्पष्टमवैमि' इति प्रतीत्योरेकाकारत्वात् , केवलं कपर्धनभ्युपगमात् ज्ञानावरण क्षयोपशमविशेषजन्यतावच्छेदकत्वेन तत्क्षयजन्यतावच्छेदकेन च स्पष्टताद्वयसिद्धिः, स्पष्टतात्वेनानुगतीकृता च स्पष्टता तल्लक्षणमिति; न च प्रत्यभिज्ञायामतिव्याप्तिः, तस्याः केवलेन्द्रियसंस्काराजन्यत्वेन स्मृतिव्यावृत्तपरोक्षधीरूपत्वादिति वाच्यम् , तस्या अस्पष्टत्वात् , इदन्तोल्लेखमात्रे स्पष्टताया अनियामकत्वात् , उक्तं च-"भवति च परोक्षस्यापि साक्षादिवाध्यवसाये प्रत्यक्षसर्वनाम्ना परामर्श इति" स्पष्टत्वेन तत्प्रतीतिस्तु सन्निहितविषयत्वादिकमवगाहते, यत्त्विन्द्रियजन्यत्वेन तस्याः प्रत्यक्षत्वमेव, लाघवादिन्द्रियजन्यत्वस्यैव प्रत्यक्षत्वप्रयोजकत्वात् , न च संस्कारजन्यत्वेन स्मृतित्वापत्तिः, विशिष्टानुभवं प्रत्यव्यवहितविशेषणज्ञानस्य हेतुत्वेन प्रत्यभिज्ञायाः पूर्व नियमतस्तत्तास्मृतिकल्पनेन तस्याः संस्काराजन्यत्वादिति, तदसत्तत्र नानास्मृतिकल्पनापेक्षया विशेषणज्ञानजन्यतावच्छेदकप्रत्यक्षत्वाभावस्यैव कल्पयितुमुचितत्वात् , प्रत्यभिजानामीत्यनुगतप्रतीतिसाक्षिकजातिविशेषस्य च चाक्षुषत्व-त्वाचत्वादिना साङ्कर्यभिया प्रत्यक्षव्यावृत्तत्वाच्च, अस्माकं तु तत्ताशे उपनय इतरांशे च सन्निकर्षों हेतुरिति प्रत्यभिज्ञायां न कारणान्तरकल्पनागौरवम् , भवतां तु प्रत्यभिज्ञात्वावच्छेदेन कारणान्तरकल्पनागौरवम् , तत्तासंस्कारस्यैव तत्तोपनायकत्वाच्च नोक्तनानास्मृतिकल्पनागौरवमपि, इन्द्रियनिरपेक्षसंस्कारजन्यत्वस्यैव स्मृतित्वप्रयोजकत्वात् , प्रयोजककल्पनायाः कारणविशेषकल्पनानुपजीव्यत्वेन तद्गौरवस्यादोषत्वादिति चेत् ?, न-स्मृति-प्रत्यभिज्ञयोर्विषयतावैलक्षण्यस्य कारणवैलक्षण्याधीनत्वेन तत्र विलक्षणहेतुकल्पनावश्यकत्वात् , अत एवासन्निकृष्टेऽपि विषये स वह्निरनुमीयते, स एवार्थः कल्प्यते' इत्यादिप्रत्यभिज्ञानम् , एवं चेन्द्रियार्थसन्निकर्षोऽपि तत्र संस्कारोद्बोधकसदृशदर्शनादिहेतुतयोपक्षीयते, तदिदमभिप्रेत्योक्तम् "अनुभूततया परोक्षमप्येकं साक्षादिवाध्यस्यतः पश्यतश्चापरं प्रत्यभिज्ञैवेयमिति, अन्यथा प्रत्यक्षत्व-परो. क्षत्वयोः साङ्कर्यप्रसङ्गाजातेरव्याप्यवृत्तित्वे स्पष्टताया विषयताविशेषरूपत्वे वा
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy