________________
स्तबकः]
स्थाद्वादवाटिकाटीकासङ्कलितः किञ्चिदंशे परोक्षत्वं किञ्चिदशे च तस्याः प्रत्यक्षत्वम् , साक्षादिवेत्यस्य साक्षाकारसामग्रीसम्पत्ताविवेत्यर्थः; अनुमानादेः सर्वथा परोक्षत्वं चासनिकृष्टांश एव, एवं च प्रत्यभिज्ञात्वमपि तदेवेति विषयताविशेष एव, मिथोऽन्तर्भावाsनन्तर्भावौ च विवक्षाधीनावित्यपि वदन्ति । ननु तथापि संशयादीनां लक्ष्यत्वे संशया-ऽनध्यवसाययोरस्पष्टयोरव्याप्तिः; अलक्ष्यत्वे च स्पष्टे भ्रमेऽतिव्याप्तिरिति चेत् ? न-प्रतिनियतवर्णसंस्थानाद्याकाराभिव्यङ्ग्यायाः स्पष्टतायास्तत्राभावात् तत्र स्पष्टताप्रतीतेर्धमत्वात् ; न च भ्रान्तभ्रान्तिज्ञसाङ्कर्यम् , भ्रान्तिज्ञानस्य. तत्स्पष्टतांशे भ्रमत्वेऽपि विषयांशेऽतथात्वात् , न च सांव्यावहारिकावग्रहेऽ. व्याप्तिः, तत्र प्रतिनियतमनुष्यत्वाद्याकाराभिव्यङ्गयास्पष्टताया निरपायत्वात् नन्वेवं सांव्यावहारिकत्वं यदि व्यवहारनयाभिमतत्वं तदाऽतिप्रसङ्गः, अवध्यादावपि स्पष्टत्वेन तद्व्यवहारात्; अथापारमार्थिकत्वम् , तदपि तथा, कात्स्येनास्पष्टत्वरूपस्य तस्य विकलप्रत्यक्षेऽभावात् , क्षायोपशमिकत्वरूपस्यापि तस्य तथात्वात् , परजन्यत्वस्यापि तथात्वात् , वस्तुतोऽवध्यादेर्गुणजन्यत्वे च मति-श्रुतयोरपि लब्धीन्द्रियगुणजन्यत्वात् , पारमार्थिकगुणजन्यत्वाभावस्योभयत्र तुल्यत्वात् ; अथेन्द्रियव्यवहितात्मजन्यत्वं तदिति चेत् ? न-कुड्यादेर्घट. स्येवेन्द्रियस्यात्मनोऽव्यवधायकत्वादिति चेत् ? न-इन्द्रियजन्यस्य सांव्यवहारिकत्वेनावधि मनःपर्याययोस्तु विकलप्रत्यक्षत्वेन परिभाषणात् ; कथमित्थमिति चेत् ? न-स्वतन्त्रपरिभाषाया अपर्यनुयोज्यत्वात् , आभोगकरणे परानपेक्षत्वं वाऽपारमार्थिकत्वविवक्षायां तन्त्रमिति दिक्” इति ।
स्मृति-प्रत्यभिज्ञयोर्विषयतावैलक्षण्यस्य विलक्षणक्षयोपशमलक्षणकारणाधीनस्य व्यवस्थितौ तत एव परोक्षे स्मृतिपार्थक्येनाभिधानम् , क्षयोपशम. विशेषादेव चासन्निकृष्टेऽपि विषये ‘स एव वह्निरनुमीयते' इत्यादिप्रत्यभिज्ञासद्भावतो न प्रत्यक्षेऽन्तर्भाव इति प्रत्यभिज्ञायास्तत्तांशे स्मृतिरूपत्वेनेदन्तांशे च प्रत्यक्षत्वेनोपपत्तौ स्मृतिपार्थक्येन परोक्षमध्ये परिगणनं विरुद्ध्येतेति शङ्काऽ. नुत्थानोपहतैवेति । नैयायिकादयश्च स्वप्रकाशकत्वसाधकयुक्तिनिकरोपदर्शिका स्थाद्वादिप्रपञ्चितां वाणीं श्रुत्वाऽपि मनसि स्वाग्रहग्रस्ततत्त्वालोकत्वेनाऽऽनन्दो. लासायास्थापयन्तोऽप्यनुकम्प्या एव, सुचिरं भावनाविशेषतो जिनमतश्रद्धोत्पादसम्भवात् , तदुक्तं श्रीमद्भिर्यशोविजयोपाध्यायैः