SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः "बोधः स्वार्थावबोधक्षम इह निहताज्ञानदोषेण दृष्टस्तस्मादस्माकमन्तर्विरचयति, चमत्कारसारं विलासम् । येषामेषाऽपि वाणी मनसि न रमते स्वाग्रहग्रस्ततत्त्वाऽsलोकालोकास्त एते प्रकृतिशठधियां हन्त ! हन्तानुकम्प्याः " ॥ ८४ ॥ ननु ज्ञान-ज्ञेययोस्तादात्म्यमेव विषयविषयिभावो लाघवान्नान्यः, तेन स्वस्वरूपाकारविशेषावगाहित्वमेव ज्ञानमात्रस्येति यथा नीलादिबुद्धिविशेषाकारस्तथाsहमिति प्रतीयमानोऽहङ्कारोऽपि बुद्धिविशेषाकारो बुद्धिविशेषस्वरूप एवेति नाहमिति प्रत्यय आत्मनि साक्षी, यदि नीलादि-तत्संविदोर्भेदः स्यात् तदा नीलादिकमन्तरेणापि तत्संवित् प्रकाशेत, नीलादिकं च संविदमन्तरेणापि भासेत, न चैवमिति नीलादि-संविदोविवेकादर्शनेन भेदासिद्धेः, तयोरैक्येऽपि यन्नीलादिकं कर्मतया चकास्ति ज्ञानं च तत्कर्मकक्रियात्मना, तत्र तथाभाने पूर्वपूर्वभ्रान्तिरेव निमित्तम् ; न च बाह्याथ विना कथं तदाकारकं ज्ञानमिति वाच्यम्, रजताद्यात्मकबाह्यार्थमन्तरेण दोषविशेषाद् रजताकारस्य भ्रमस्य दर्शनात् , न चार्थः प्राक् पश्चात् तज्ज्ञानमिति पूर्वापरभावस्यैकस्मिन्नसंभवादर्थज्ञानयोर्भेद इति वाच्यम् , प्रागनुपलम्भेनार्थाभावसिद्धेः, न च पूर्व चैत्रेणावलोकितं घटादिकमर्थ मैत्रः पश्यतीति मैत्रज्ञानात् पूर्व तद्विषयघटादिरूपार्थस्य चैत्रज्ञानलक्षणोपलम्भोऽस्त्येवेति वाच्यम् , परोपलम्भे मानाभावात् , भावेऽपि यथा चैत्रप्रत्यक्षविषयीकृतात् सुखादितोऽन्यदेव मैत्रप्रत्यक्षविषयीकृतं सुखादिकं तथैव पूर्व चैत्रोपलम्भविषयीकृताद् घटनीलादितो भिन्न एव पश्चान्मैत्रप्रत्यक्षविषयीभूतो घटनीलादिरिति स्व-परदृष्टनीलयोः स्व-परसुखादिवदेकत्वासिद्धेः, यथा च स्वप्नावस्थायां बाह्यविषयाभावेऽपि प्रतिनियतवासनाप्रबोधात् प्रतिनियताकारं वेदनं तथा जागरावस्थायामपि प्रतिनियतवासनाप्रबोधात् प्रतिनियताकारं संवेदनमुपपद्यत इति न ज्ञानगताकारविशेषनियामकतया बाह्यार्थस्वीकार आवश्यक इत्याशङ्कायामाह-न चेति-इदमवतरणमुपाध्यायकृतावतरणानुरोधि, श्रीहरिभद्रसूरिभिस्तु-“पराभिप्रायमाशङ्कयाह-न चेति-इत्येवावतारितम् , तथापि तयोर्न भेदः, पराभिप्रायस्वरूपस्यानुक्तस्यैवोपाध्यायेन विशदीकरणादिति बोध्यम् ।
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy