SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ स्तबकः स्याद्वादवाटिकाटीकासङ्कलितः १७१ न च बुद्धिविशेषोऽयमहङ्कारः प्रकल्प्यते। दानादिबुद्धिकालेऽपि, तथाहङ्कारवेदनात् ॥ ८५ ॥ न चेति-अयम् अहमिति बुद्धिविषयः, अहङ्कारः, बुद्धिविशेषः अतिरिक्तात्मार्थविनिर्मुक्ताहमितिबुद्ध्याकाररूपः, न च नैव, प्रकल्प्यते कल्पयितुं शक्यते,नहि नीलादिकमपि बुद्धिविशेषस्वरूपमेव, आलोक-घटयोः सह संवेदनेऽपि भेदवत् नील-संवेदनयोः सह संवेदनेऽपि भेदस्योपपत्तेः, तत्र हेतुः-दानादिबुद्धिकालेऽपि तथाऽहङ्कारवेदनादिति । दानादीत्यादिपदेन कृत्यादिपरिग्रहः, दानबुद्धिः-ददामीति, कृतिबुद्धिः-करोमीति, इच्छाबुद्धिः-इच्छामीति, ईदृशदानादिबुद्धिर्यदा प्रवर्तते तदाऽपि, तथा प्रतिनियतोल्लेखेन, अहङ्कारवेदनात् अहमित्यनुभवात् , दानबुद्धेः प्रतिनियतोल्लेखो ददामीति, कृतिबुद्धः प्रतिनियतोल्लेखः करोमीति, अहङ्कारबुद्धेः प्रतिनियतोल्लेखोऽहमिति, तत्र विषयवैचित्र्याधीनं न ज्ञानोल्लेखवैचित्र्यं, किन्तु प्रबुद्धवासनाधीनमेव, तदा दानवासनया दानाकारोल्लेखशेखरः कृतिवासनया कृत्याकारोल्लेखशेखरो बोधो भवेत् , न त्वहमित्यहङ्कारबुद्धिः, अन्यवासनाया अन्याकाराजनकत्वात् , तथा च दानवासनाप्रभवो बोधो ददामीति, न त्वहं ददामीति, कृतिवासनाप्रभवो बोधः करोमीति, न त्वहं करोमीति, तथा च 'अहं ददामि, अहं करोमि' इत्यादिबुद्धौ दानादिसामर्थ्यवत्तया 'अहम्' इत्येवं भासमानो न ददामि' इत्यादिबुद्धिरूपो दानादिवासनाप्रभवः, किन्तु तद्व्यतिरिक्तोऽर्थः स एवात्मेति । ननु यदा दानवासनाप्रबोधस्तदाऽहंवासनाप्रबोधोऽपि भवति, एवं यदा कृतिवासनाप्रबोधस्तदाप्यहवासनाप्रबोध इति युगपदुभयवासनाप्रबोधादुभयाकारः 'अहं ददामि' इति 'अहं करोमि' इत्यादिबोध इति चेत् ? तर्हि यदा दानादिवासनाप्रबोधस्तदा नीलादिवासनाप्रबोधोऽपि भवतीति कल्पनया 'नीलो ददामि' इत्यादिबोधः किं न स्यात् ? दानादिवासनाप्रबोधनियतकालीनोऽहंवासनाप्रबोध एव न तु नीलादिवासनाप्रबोध इति चेत् ? अत्र नियामकस्य वक्तव्यत्वात् , स्वभाव एव नियामक इति चेत् ? न-तथा सति दानादिप्रतीतिकालस्य 'अहं ददामि' इति प्रतीतिजनकत्वमेव स्वभावो, न तु 'नीलो ददामि' इत्यादिप्रतीतिजनकत्वस्वभाव इत्येतावतोपपत्तिसम्भवेन वासनाया अप्यन्यथासिद्धेः; दानादिप्रतीतिकालस्य नीलादिवासनानुद्बोधकत्वात् 'नीलो ददामि' इति न धीरिति चेत् ?
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy