Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
भूतधर्मस्य नीलादेस्तथात्वादर्शनादित्यर्थः । द्वित्वादीति - यथा भूतधमोंऽपि द्वित्वादि यस्यैवापेक्षा बुद्ध्या जनितं तस्यैव भोगजनकं तथाऽपूर्वमपि तद्धर्मः स्यादित्यर्थः । द्वित्वादेरप्यसाधारणत्वं नियतचेतनगुणोपग्रहेणैवेत्याहतस्यापीति । ननु भूतधर्मान्तरस्य साधारण्येऽप्यपूर्वं तद्धर्मस्तत्कार्यत्वमात्रैवासाधारणं स्यादित्यत आह- तथापीति । कार्यकारणभावमेवाह - शरीरादीनामिति । प्रकृतेऽपीति - यथा शरीरादीनां चेतनगुणबुद्ध्यादिसहितानां नियतभोगजनकत्वं तथा प्रकृतेऽपि तेषां तत्सहितानामेव तजनकत्वमस्त्विति कृतमपूर्वेणेत्यर्थः । शरीरादेरिति न शरीराद्युत्पत्तेः पूर्वं बुद्ध्यादिसम्भव इति तदन्यचेतनगुणा पूर्व - सिद्धिरित्यर्थः, 'देवदत्ताद्यशरीरं स्वाव्यवहितप्राक्कालवर्तिदेवदत्तसमवेतविशेषगुणजन्यं, कार्यत्वे सति तद्भोगसाधनत्वात्, तन्निर्मितस्रग्वत्' घटादीनां पक्षसमत्वान्न तैर्व्यभिचारः, न च संस्कारेणार्थान्तरम्, तस्य भोगजनकत्वेनाकल्पनात्, संस्काराजन्यत्वेन पक्षविशेषणाद् वेति भावः" इति ।
१८८
अदृष्टगतवैजात्ये मानाभावेन तस्य चित्रस्वभावत्वमपि न युज्यते, विजातादृष्टं प्रति कर्मणां विशिष्य कारणत्वस्यादृष्टवैजात्यसिद्धौ सत्यां कल्पने गौरवाच्च, न च—
"कर्मनाशाजलस्पर्शात् करतोयाविलङ्घनात् ।
"
गण्डकीबाहुतरणाद्, धर्मः क्षरति कीर्तनात् ॥ " [ ] इति ।
वचनप्रामाण्यात् कर्मनाशाजलस्पर्शादिनाश्यतावच्छेदकतया अदृष्टगतवैजात्यस्य धर्मत्वाख्यस्य, ब्रह्महत्यादिपापं प्रायश्चित्तादिनाऽपनुदतीति प्रायश्चित्तादिनाश्यतावच्छेदकतयाऽदृष्टगतवैजात्यस्याधर्मत्वस्य च सिद्धिः, अश्वमेध - वाजपेय यागादेर्ब्रह्महत्यादेश्च क्रियारूपस्य पूर्वमेव विनष्टत्वेन तस्य ततो विनाशासम्भवादिति वाच्यम्, तत्रादृष्टत्वस्य स्याश्रयजन्यता विशेष सम्बन्धेनाश्वमेधत्वादिघटितस्य वा कर्मनाशाजलस्पर्शादिनाश्यतावच्छेदकत्वात्, अन्यथा “मयाऽश्वमेघवाजपेयौ कृतौ, मया वाजपेय - ज्योतिष्टोमो कृतौ” इत्यादिकीर्तन नाश्यतावच्छेदक जातिसाङ्कर्यस्यापि संभवात्, यतः 'मयाऽश्वमेधवाजपेयौ कृतौ' इत्येवं स्वरूपकीर्तनेनाश्वमेधजन्यमपूर्वं नश्यति तथा वाजपेयजन्यमपूर्वं नश्यतीति तत्कीर्तननाश्यतावच्छेदकवैजात्यमश्वमेधजन्यापूर्वे वाजपेयजन्यापूर्वे च वर्तते, ज्योतिष्टोमजन्यापूर्वे च वर्तते, तथा च तयोर्वेजात्ययोर्वाजपेयजन्यापूर्वे मिथः सामानाधिकरण्यम्, अश्वमेधजन्यापूर्वे ज्योतिष्टोमजन्यापूर्वे च परस्परात्यन्ता

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300