Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१९४ शास्त्रवार्तासमुच्चयः ।
[प्रथमः उक्तार्थे निदर्शनमाह-पुष्पादिगन्धवैकल्य इति-पुष्पादिगन्धसम्बन्धाभावे इत्यर्थः । यतः यस्मात् कारणात् । तिलादौ वासना, 'नेष्यते' इत्यस्य स्थाने 'नेक्ष्यते' इति पाठो युक्तः, नानुभूयत इत्यर्थः, अनुभवस्य साक्षितयोपदर्शनेन निदर्शनं सुदृढं भवतीति, 'आत्मगतज्ञानवासना आत्मव्यतिरिक्तसम्बन्धजन्या वासनात्वात् , तिलादिगतगन्धवासनावद्' इत्यनुमानमत्र बोध्यम् ॥ १०२ ॥ ततश्च यद् आत्मव्यतिरिक्तं तद्वासकं वस्तु तत् कर्मेति सिध्यतीत्याह
बोधमात्रातिरिक्तं तद् , वासकं किञ्चिदिष्यताम् ।
मुख्यं तदेव वः कर्म, न युक्ता वासनाऽन्यथा ॥ १०३ ॥ बोधमात्रातिरिक्तमिति-यस्माद् बोधमात्रव्यतिरिक्तं तत् तस्मानियमात् , वासकं किञ्चिद् इष्यतां स्वीक्रियताम् , तदेव स्वीक्रियमाणम् , वः युष्माकम् , मुख्यं वस्तु सत्, अवस्तुना वासनासम्भवात् कर्म, अस्तु भवतु, अन्यथा निरुक्तस्वरूपकर्माभ्युपगमं विना, वासना तु युक्ता न युत्तयुपपन्ना, वासकमन्तरेणापि वासनाभ्युपगमे तिलादौ पुष्पादिगन्धसम्बन्धमन्तरेणापि वासना प्रसज्येत; न चादृष्टस्यासतोऽपि ख्यातिरसत्ख्यातिवादिभिरस्माभिरुपेयते, तेनासत्ख्यात्योपनीतस्यादृष्टस्य भेदाग्रहाज्ज्ञानवासना भवतीत्येवमभ्युपगमे वासककर्मणोऽभ्युपगमो नावश्यक इति वाच्यम् , असत्ख्यात्युपनीतादृष्टभेदाग्रहाद् वासनाभ्युपगमे प्रमाणाभावात् , अन्यथा तैलादिषु पुष्पादिगन्धसम्बन्धाभावेऽपि पुष्पादिगन्धभेदाग्रहात् तद्वासनापत्तेः; न च तैलादिगतगन्धवासना पुष्पादिगन्धसम्बन्धप्रभवेति न सा पुष्पादिगन्धसम्बन्धमन्तरेण पुष्पादिगन्धभेदाग्रहाद् भवितुमर्हति, ज्ञानवासना तु तद्विलक्षणैवेति साऽसख्यात्युपनीतादृष्टभेदाग्रहाद् भविष्यतीति वाच्यम् , ज्ञानेऽदृष्टभेदाग्रहाद् वासनाभावे ज्ञानेऽदृष्टभेदग्रहाद् वासनानिवृत्तिरित्यस्यापि स्वीकतुं शक्यत्वेन यस्य प्रमातुरिदानी ज्ञानमदृष्टाद् भिन्नमिति ग्रहस्तस्य ज्ञानेऽदृष्टभेदग्रहाद् वासनानिवृत्त्येदानी मुक्तिप्रसङ्गात् , न चेदानीं भेदग्रहस्याभावेऽप्युत्तरकाले भेदाग्रहो भविष्यतीति तत्प्रयोजकदोषस्येदानीं सत्त्वान्नेदानी मुक्तिप्रसङ्ग इति वाच्यम् , तथा सति दोषाभावविशिष्टभेदग्रहाभावो वासनेत्यभ्युपगतः स्यात् , दोषश्च तत्र वासनैवेति वासनालक्षणदोषाहोषाभावविशिष्टभेदग्रहाभावो वासनेत्यात्माश्रयः, असत्तयाऽप्यदृष्टस्य स्वीकारे सत्येव निरुक्तवासनास्वीकारः संभ

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300