Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
२०१ योगिनां प्राग्जन्मकृतानामपि नानाकर्मणां न फलदातृत्वं भवति, न च प्राग्जन्मकृतनानाकर्मोद्देशेन योगो विधीयत इति योगरूपप्रायश्चित्तस्यादत्तफलनिष्ठोहेश्यतासम्बन्धेन प्राग्जन्मकृतकर्मसु न सत्त्वमिति तदभावविशिष्टकर्मत्वलक्षणकारणतावच्छेदकाक्रान्तेभ्यः प्राग्जन्मकृतनानाविधकर्मभ्यः स्वस्वविलक्षणफलोत्पत्तिर्योगिष्वपि प्रसज्यत इति योगरूपप्रायश्चित्तस्यादृष्टनाशकत्वं विना न निर्वाहः; न च योगात् कायव्यूहद्वारा भोग एवेति साम्प्रतम् , नानाविधानन्तशरीराणामेकदाऽसम्भवात् । ___ यथा च योगिनस्तत्त्वज्ञानिनः कायव्यूहद्वाराऽशेषकर्मोपभोगो न सम्भवति तथोपपादितं श्रीमद्भिर्यशोविजयोपाध्यायैर्महावीरस्तवप्रकरणे न्यायखण्डखाद्याख्यवृत्तिसमलङ्कृते, तथा च तत्संदर्भ:-"अथ क्षायोपशमिके ज्ञाने यथा तथाऽस्तु, केवलज्ञानं तु क्लुप्तकारणभोगद्वारैव कर्मक्षयजनकं स्यात् , तत्राह
"ज्ञानं न केवलमशेषमुदीर्य भोग, कर्मक्षयक्षममबोद्धृदशाप्रसङ्गात् ।
वैजात्यमेव किल नाशकनाश्यतादौ, तत्रं नयान्तरवशादनुपक्षयश्च ॥७९॥" केवलज्ञानमशेष भागमुदीर्य कायव्यूहमहिम्नोपस्थाप्य कर्मक्षयक्षममिति न वाच्यम् , कस्मात् ? अबोद्धृदशाप्रसङ्गात्-अबोद्धृतापत्तेः, एवं हि शूकरादिभोग्य कर्म क्षपयितुं शूकरादिशरीरमिवैकेन्द्रियादिशरीरभोग्यं ज्ञानावरणं क्षपयितुमेकेन्द्रियादिशरीरमपि परस्य तत्त्वज्ञानी परिगृह्णीयात् , तथा च तद्वदेवाबोद्धृता. प्रसङ्गः; अज्ञानं न भोग्यं सुखदुःखानन्यतरत्वादिति न प्रसङ्ग इति चेत् ? न"जात्यायु गास्तद्विपाकः” [ ] इति सूत्रयता योगाचार्येण कर्मफलमात्रस्य भोग्यत्वातिदेशात् ; तत्त्वज्ञानप्रतिबन्धककर्मनाशादेव कैवल्योत्पत्तेर्नायं प्रसङ्ग इति चेत् ? स एव कुतो जातः ?, विविदिषा-शम-दमादिसह कृतयत्याश्रमोचिताचारादिति चेत् ? यथा पूर्व शरीरापेक्षभोग विनैव ततोऽदृष्टविशेषनाशस्तथा तत्त्वज्ञानोत्पत्यनन्तरमपि तत एव स किमिति नाद्रियते, किं कायव्यूहादिकल्पनाक्लेशेन ?, नाश्यनाशकतावच्छेदकवैजात्यकल्पनं त्वदृष्टे ज्ञान-क्रियादौ चावश्यकमेवेति न व्यभिचारादिदोषः, यथा च विविदिषादिनाऽदृष्टविशेषक्षयो न भोगद्वारा तत्त्वज्ञानेनापि, भोगेन वितरे क्षपयित्वेति वाक्यशेषे च तृतीया न भोगस्य कारणत्वं व्यवस्थापयति, किन्तु निर्जरानान्तरीयकप्रदेशानुभवस्य नियतपूर्वसत्वमात्रमिति स्पष्टीभविष्यत्यनुपदमेव; न च तत्त्वज्ञानादनन्तरमेव भवोपग्राहिकर्मक्षयः, चिरोपदेशश्रुतिविरोधात् , किन्तु समाधिविशेषाचारित्रपरि

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300