Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 226
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १८३ च्छादकतया निर्माता, यो व्यक्तिविशेषः, च पुनः, कर्मफलस्य सुखदुःखादेः, भोक्ता तस्यात्मगततया साक्षात्कर्ता, तथा संसर्ता स्वकृतकर्मफलोपभोगार्थ स्वकृतकर्मानुरूपनरकादिगतिगामी, संसरणशील इति यावत् , तथा परिनिर्वाता स्वेनैव बद्धस्य कर्मणः स्वप्रदेशतः पृथक्करणलक्षणक्षयकारी, हि निश्चितम्, स आत्मा अनन्तरोपवर्णितलक्षणवानात्मा, नान्यलक्षणः परोक्तकूटस्थत्वाद्येकान्तनित्यत्वादिलक्षणको न भवति, तथा च कर्तृत्वादिकं नित्यस्यैव घटते, नानित्यस्य मनसः, कार्यसमये नश्यतो हेतोः कार्याजनकत्वात् , कार्यकालावर्तिनोऽपि कारणत्वाभ्युपगमे चिरकाल विनष्टादपि कारणात् कालान्तरे कार्योत्पत्त्यापत्तेः, तथा च त्वदुक्तस्यानित्यस्य मनस आत्मरूपत्वं न संभवति, किन्तु तद्व्यतिरिक्त एव विज्ञानघनो नित्य आत्मेति सिद्धम् ॥ ९० ॥ नित्यत्वेऽप्यात्मनो नरादिरूपं वैचित्र्यं यथा संभवति तथोपपाद्य दर्शयति आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तचित्रमदृष्टं कर्मसंज्ञितम् ॥ ९१ ॥ आत्मत्वेनेति । आत्मत्वेन आत्मत्वसामान्येन, अविशिष्टस्य एकरूपस्य एकजातीयस्येति यावत् , तस्य मात्मनः, वैचित्र्यं नरादिरूपं वैलक्षण्यम् , नरादीत्यादिपदानारकादिपरिग्रहः, यद्वशात् यस्य कारणस्य सामर्थ्यात् , तत् कारणम् ।चित्रं कार्यवैचित्र्यनिर्वाहकशक्त्यपरनामकस्वभाववैचित्र्यशालि, कर्मसंज्ञितं कर्मापरनामधेयम् , अदृष्टं सिद्ध्यतीति । न च धर्माधर्मलक्षणादृष्टस्वीकारमन्तरेणापि नरगत्याद्यर्जकक्रिययैव प्राग्भवोपार्जितया नरत्वादिवैचित्र्यं भविष्यतीति किमन्तर्गडुनाऽदृष्टेनेति वाच्यम् , अतिचिरविनष्टहेतोः फलाव्यवहितपूर्वक्षणस्थायिव्यापारव्याप्यत्वस्यावधारणात् , तदुक्तं कुसुमाञ्जलौ नैयायिकप्रकाण्डैरुदयनाचार्यैः "चिरध्वस्तं फलायालं, न कर्मातिशयं विना। सम्भोगो निर्विशेषाणां, न भूतैः संस्कृतैरपि ॥ १-९॥” इति । अनेत्थं तद्न्थवचनसन्दर्भ:-"अस्तु दानाध्ययनादिरेव विचित्रो हेतुर्जगद्वैचित्र्यस्येति चेत् ? न-क्षणिकत्वात् , अपेक्षितस्य कालान्तरभावित्वात्।

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300