Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१८०
शास्त्रवार्तासमुच्चयः।
[प्रथमः
समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् , न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वादिति क्षणिकत्वमेव तस्याः कुतः? इति चेत् ? त्वदुक्तयुक्तेरेव, तथाहि-यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयते, अन्य वा ? न कमपि ? इति, तत्र न प्रथमः, तस्य तदानीमसत्त्वात् ; न द्वितीयः, अप्रतिसंक्रमात् , एकक्षणावगाहिनि च ज्ञाने तदन्यक्षणाश्रयज्ञानताफलत्वेन भ्रान्तत्वप्रसङ्गात् , रजतावगाहिनि पुरोवर्तिवृत्तिज्ञातताफल इव, न चान्यमपि क्षणं ज्ञानमवगाहते, तदानीं तस्यासत्त्वात् ; न तृतीयः, निःस्वभावताप्रसङ्गात् , नह्यसौ तदानीं तदीया अन्यदीया वेति; अतीतेनापि तेनैव क्षणेनोपल क्षिताऽनुवर्तते इति चेत् ? एवं तर्हि वर्तमानार्थता प्रकाशस्य न स्यात् , अन्यथा ज्ञानस्यापि तथाऽनुवृत्तेः को दोषः ?, न हि वर्तमानार्थप्रकाशसम्बन्धमन्तरेण ज्ञानस्यान्या वर्तमानावभासता नाम, अर्थनिरपेक्षप्रकाशनानुवृत्तिमात्रेण तथात्वे भूतभाविविषयस्यापि ज्ञानस्य तथा भावप्रसङ्गात् ; अथ मा भूदयं दोष इति स्थूल एव वर्तमानः प्रकाशेनाश्रीयत इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति; न च ज्ञानमैन्द्रियकं चेत् ? विषयसञ्चारो न स्यात् , सञ्जातसम्बन्धत्वात् ; न च जिज्ञासानियमानियमः, तस्याः संशयपूर्वकत्वात् , तस्थ च धर्मिज्ञानपूर्वकत्वात् , धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षणे वा उभयथाऽप्यनवस्थानादिति, तन्न-ज्ञाततापक्षेऽपि तुल्यत्वात् , तस्या अपि हि ज्ञेयत्वे तत्परम्पराज्ञानापातात् , जिज्ञासानियमस्य च तद्वदनुपपत्तः, न चेन्द्रियसम्बन्धविच्छेदाद् विराम इति युक्तम् , आत्मप्राकट्याव्यापनात् , स्वभावत एव काचिदसावजिज्ञासिताऽपि ज्ञायते, न तु सर्वेति चेत् ? तुल्यम् ; प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः संजातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत् ? तुल्यमेतत्" इति ।
ज्ञाततायाः सद्भावेपि तया ज्ञानानुमानं न सम्भवति, ज्ञातताया विषयनिष्ठत्वेन ज्ञानस्य चात्मनिष्ठत्वेन तयोर्व्यधिकरणत्वात् ; अथ समवायेन घटप्रत्यक्षं यद्यप्यात्मनि वर्तते तथापि विषयतया तद् घटे वर्तते, तत्र च समवायेन ज्ञातताऽप्यस्ति, भावस्वरूपाया ज्ञातताया जन्याया जन्येष्वेव भावेष्वन्तर्भावनीयतया समवायेन सत्वसम्भवात् , एवं च समानाधिकरणीभूतया ज्ञाततया ज्ञानस्यानुमानं सम्भवति; अथवा यस्य पुरुषस्य घटप्रत्यक्षेण घटप्राकट्यं जन्यते तद्धटप्राकट्यं सम्बन्धविशेषेण तदीयात्मन्येव वर्तते, एवं च सम्बन्धविशेषेण घट

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300