SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १८० शास्त्रवार्तासमुच्चयः। [प्रथमः समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् , न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वादिति क्षणिकत्वमेव तस्याः कुतः? इति चेत् ? त्वदुक्तयुक्तेरेव, तथाहि-यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयते, अन्य वा ? न कमपि ? इति, तत्र न प्रथमः, तस्य तदानीमसत्त्वात् ; न द्वितीयः, अप्रतिसंक्रमात् , एकक्षणावगाहिनि च ज्ञाने तदन्यक्षणाश्रयज्ञानताफलत्वेन भ्रान्तत्वप्रसङ्गात् , रजतावगाहिनि पुरोवर्तिवृत्तिज्ञातताफल इव, न चान्यमपि क्षणं ज्ञानमवगाहते, तदानीं तस्यासत्त्वात् ; न तृतीयः, निःस्वभावताप्रसङ्गात् , नह्यसौ तदानीं तदीया अन्यदीया वेति; अतीतेनापि तेनैव क्षणेनोपल क्षिताऽनुवर्तते इति चेत् ? एवं तर्हि वर्तमानार्थता प्रकाशस्य न स्यात् , अन्यथा ज्ञानस्यापि तथाऽनुवृत्तेः को दोषः ?, न हि वर्तमानार्थप्रकाशसम्बन्धमन्तरेण ज्ञानस्यान्या वर्तमानावभासता नाम, अर्थनिरपेक्षप्रकाशनानुवृत्तिमात्रेण तथात्वे भूतभाविविषयस्यापि ज्ञानस्य तथा भावप्रसङ्गात् ; अथ मा भूदयं दोष इति स्थूल एव वर्तमानः प्रकाशेनाश्रीयत इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति; न च ज्ञानमैन्द्रियकं चेत् ? विषयसञ्चारो न स्यात् , सञ्जातसम्बन्धत्वात् ; न च जिज्ञासानियमानियमः, तस्याः संशयपूर्वकत्वात् , तस्थ च धर्मिज्ञानपूर्वकत्वात् , धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षणे वा उभयथाऽप्यनवस्थानादिति, तन्न-ज्ञाततापक्षेऽपि तुल्यत्वात् , तस्या अपि हि ज्ञेयत्वे तत्परम्पराज्ञानापातात् , जिज्ञासानियमस्य च तद्वदनुपपत्तः, न चेन्द्रियसम्बन्धविच्छेदाद् विराम इति युक्तम् , आत्मप्राकट्याव्यापनात् , स्वभावत एव काचिदसावजिज्ञासिताऽपि ज्ञायते, न तु सर्वेति चेत् ? तुल्यम् ; प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः संजातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत् ? तुल्यमेतत्" इति । ज्ञाततायाः सद्भावेपि तया ज्ञानानुमानं न सम्भवति, ज्ञातताया विषयनिष्ठत्वेन ज्ञानस्य चात्मनिष्ठत्वेन तयोर्व्यधिकरणत्वात् ; अथ समवायेन घटप्रत्यक्षं यद्यप्यात्मनि वर्तते तथापि विषयतया तद् घटे वर्तते, तत्र च समवायेन ज्ञातताऽप्यस्ति, भावस्वरूपाया ज्ञातताया जन्याया जन्येष्वेव भावेष्वन्तर्भावनीयतया समवायेन सत्वसम्भवात् , एवं च समानाधिकरणीभूतया ज्ञाततया ज्ञानस्यानुमानं सम्भवति; अथवा यस्य पुरुषस्य घटप्रत्यक्षेण घटप्राकट्यं जन्यते तद्धटप्राकट्यं सम्बन्धविशेषेण तदीयात्मन्येव वर्तते, एवं च सम्बन्धविशेषेण घट
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy