Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१७८ शास्त्रवार्तासमुच्चयः .
[प्रथमः धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनैकान्तात् , नहि शरसंयोगेन गगने किञ्चित् क्रियते, अन्त्यशब्दाभिव्यक्त्या वा, स्पन्दाभिप्रायेणासिद्धेः, व्यापाराभिप्रायेण शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात् , नहि तैः प्रमेये किञ्चित् क्रियते, अपि तु प्रमातर्येव, फलाभिप्रायेणापि तथा, अन्ततस्तेनैवानकान्तात् , अनवस्थानाच, आशुविनाशिधर्माभिप्रायेण द्वित्वादिभिरनियमात् , आशुकार. काभिप्रायेण कर्मण्यसिद्धेः, कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् , कर्तर्याशु. कारकत्वस्य कर्मोपकारकत्वेनाव्याप्तेः, शब्दादिव्यापारैरेवानेकान्तात् , स्यादेतत् , अनुभवसिद्धमेव प्राकट्यम् , तथाहि-ज्ञातोऽयमर्थः' इति सामान्यतः, 'साक्षात्कृतोऽयमर्थः' इति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति चेत् ? तदसत्-यथाहि
"अर्थेनैव विशेषो हि, निराकारतया धियाम् ।।
तथाक्रिययैव विशेषो हि, व्यवहारेषु कर्मणाम् ॥" किं न पश्यसि 'घटक्रिया, पटक्रिया' इतिवत् 'कृतो घटः, करिष्यते घटः' इत्यादि, तथैव गृहाण-घटज्ञानं, पटज्ञानमितिवत् 'ज्ञातो घटो, ज्ञास्यते ज्ञायते' इति, कथमसम्बद्धयोधर्म-धर्मिभाव इति चेत् ? ध्वस्तो घट इति यथा; एतदपि कथमिति चेत् ? नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि; तन्निरूपणाधीननिरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र सम्बन्धान्तरेणेति चेत् ? प्रकृतेऽप्येवमेव; एतेन 'फलानाधारत्वादर्थः कथं कर्म?' इति निरस्तम् , विनाश्यवत् करणव्यापारविषयत्वेन तदुपपत्तेः, स्वाभाविकफलनिरूपकत्वं च तुल्यम् , ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत? अप्रतीतं च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातता. कल्पनम् , तदप्यसत्-परस्पराश्रयप्रसङ्गात् , ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहारान्यथानुपपत्तिस्तां ज्ञापयेत् ; कुतश्च ज्ञातमतीन्द्रियम् ? इन्द्रियेणानुपलभ्यमानत्वादिति चेत् ? न-अनुमानोपन्यासे साध्याविशिष्टत्वात् , अनुपलब्धिमात्रोपन्यासे तु योग्यताऽविशेषिताऽसौ कथमैन्द्रियकोपलम्भाभावं गमयेत् ?, तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति; तथाविधज्ञाततानाश्रयत्वादिति चेत् ? न-आश्रयासिद्धेः व्यवहारान्यथानु पत्त्यैव सिद्ध आश्रय इति चेत् ? न-ज्ञानहेतुनैव तदुपपत्तेः; तस्यात्ममनस्संयोगादिरूपस्य सत्त्वेऽपि सुषुप्तिदशायामर्थव्यवहाराभावानवमिति चेत् ? न-तावन्मात्रस्य व्यवहारा

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300