SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १७८ शास्त्रवार्तासमुच्चयः . [प्रथमः धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनैकान्तात् , नहि शरसंयोगेन गगने किञ्चित् क्रियते, अन्त्यशब्दाभिव्यक्त्या वा, स्पन्दाभिप्रायेणासिद्धेः, व्यापाराभिप्रायेण शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात् , नहि तैः प्रमेये किञ्चित् क्रियते, अपि तु प्रमातर्येव, फलाभिप्रायेणापि तथा, अन्ततस्तेनैवानकान्तात् , अनवस्थानाच, आशुविनाशिधर्माभिप्रायेण द्वित्वादिभिरनियमात् , आशुकार. काभिप्रायेण कर्मण्यसिद्धेः, कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् , कर्तर्याशु. कारकत्वस्य कर्मोपकारकत्वेनाव्याप्तेः, शब्दादिव्यापारैरेवानेकान्तात् , स्यादेतत् , अनुभवसिद्धमेव प्राकट्यम् , तथाहि-ज्ञातोऽयमर्थः' इति सामान्यतः, 'साक्षात्कृतोऽयमर्थः' इति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति चेत् ? तदसत्-यथाहि "अर्थेनैव विशेषो हि, निराकारतया धियाम् ।। तथाक्रिययैव विशेषो हि, व्यवहारेषु कर्मणाम् ॥" किं न पश्यसि 'घटक्रिया, पटक्रिया' इतिवत् 'कृतो घटः, करिष्यते घटः' इत्यादि, तथैव गृहाण-घटज्ञानं, पटज्ञानमितिवत् 'ज्ञातो घटो, ज्ञास्यते ज्ञायते' इति, कथमसम्बद्धयोधर्म-धर्मिभाव इति चेत् ? ध्वस्तो घट इति यथा; एतदपि कथमिति चेत् ? नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि; तन्निरूपणाधीननिरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र सम्बन्धान्तरेणेति चेत् ? प्रकृतेऽप्येवमेव; एतेन 'फलानाधारत्वादर्थः कथं कर्म?' इति निरस्तम् , विनाश्यवत् करणव्यापारविषयत्वेन तदुपपत्तेः, स्वाभाविकफलनिरूपकत्वं च तुल्यम् , ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत? अप्रतीतं च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातता. कल्पनम् , तदप्यसत्-परस्पराश्रयप्रसङ्गात् , ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहारान्यथानुपपत्तिस्तां ज्ञापयेत् ; कुतश्च ज्ञातमतीन्द्रियम् ? इन्द्रियेणानुपलभ्यमानत्वादिति चेत् ? न-अनुमानोपन्यासे साध्याविशिष्टत्वात् , अनुपलब्धिमात्रोपन्यासे तु योग्यताऽविशेषिताऽसौ कथमैन्द्रियकोपलम्भाभावं गमयेत् ?, तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति; तथाविधज्ञाततानाश्रयत्वादिति चेत् ? न-आश्रयासिद्धेः व्यवहारान्यथानु पत्त्यैव सिद्ध आश्रय इति चेत् ? न-ज्ञानहेतुनैव तदुपपत्तेः; तस्यात्ममनस्संयोगादिरूपस्य सत्त्वेऽपि सुषुप्तिदशायामर्थव्यवहाराभावानवमिति चेत् ? न-तावन्मात्रस्य व्यवहारा
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy