________________
स्तबकः :]
स्याद्वादवाटिकाटीकासङ्कलितः
www.wm
"
विषयत्वरूपं ज्ञानक्रियाकर्मत्वम्, स्वस्य चात्मनि विशेष्ये प्रकारत्वात्मकविशेषणत्वरूपं क्रियात्वं च योग्यत्वाद् भासते, यद्यपि चक्षुषा घटमहं जानामीत्येवमप्यभिलापो भवति तथापि चक्षुरादिकरणस्यायोग्यत्वात् तदंशे तस्य न साक्षात्त्वमिति किमनुपपन्नम् ? ज्ञानस्य परेणैव प्रकाश इत्यभ्युपगन्तॄणां नैयायिकादीनां मते च ज्ञानस्य प्रत्यक्षानुपपत्तिः, 'घटमहं जानामि' इत्यनुव्यवसायात्मकतत्प्रक्षक्षणे 'अयं घटः' इति ज्ञानस्वरूपव्यवसायलक्षणविषयस्याभावात्, प्रत्यक्षं प्रतिविषयस्य कारणत्वेन व्यवसायरूपविषयात्मक कारणाभावे अनुव्यवसायात्मकतत्प्रत्यक्षरूपकार्यासंभवात् न च प्रथमक्षणे 'अयं घटः' इति व्यवसायस्ततो द्वितीयक्षणे ज्ञानत्वस्य निर्विकल्पक प्रत्यक्षं ततस्तृतीयक्षणे ज्ञानत्व विशिष्टज्ञानप्रत्यक्षं व्यवसायविषयकं भविष्यति तदानीं व्यवसायरूपविषयस्याभावेऽपि तदव्यवहितपूर्वक्षणे सत्वात्, कार्यान्यवहितपूर्वक्षणवृत्तित्वादेव तस्य कारणत्वोपपत्तेः, ततो ज्ञानत्व विशिष्टज्ञानात्मक विशेषणज्ञानादात्मविशेष्यकज्ञानत्वविशिष्टज्ञानप्रकारकं 'घटमहं जानामि इति ज्ञानत्वविशिष्टवैशिष्ट्यावगाहिज्ञानम्, विशेषणं च न विशिष्टप्रत्यय हेतुः, तत्तां विनाऽपि 'सोऽयं घटः' इति प्रत्यभिज्ञानस्य तत्ताविशिष्टबुद्धिरूपस्योत्पादात् एवं च तदानीं घटविषयकव्यवसायलक्षण विशेषणाभावेऽपि तद्विशिष्टबुद्धेर्नानुपपत्तिरिति वाच्यम्, प्रत्यक्षे विषयस्य स्वसमयवृत्तित्वेनैव हेतुत्वात्, अन्यथा विनश्यदवस्थघटचक्षुस्सन्निकर्षांद् घटनाशक्षणे घटप्रत्यक्षप्रसङ्गात्, तथा च ज्ञानत्वनिर्विकल्प कज्ञानानन्तरक्षणे विषयस्य व्यवसायस्याभावेन तदा तत्प्रत्यक्षानुपपत्तेः, तदानीं ज्ञानस्य व्यवसायलक्षणस्यातीतत्वेन जानामीति वर्तमानत्वज्ञानानुपपत्तेश्च; न च तत्र ज्ञाने विशेपणतया भासमानं वर्तमानत्वं वर्तमानस्थलकालवृत्तित्वं न तु वर्तमानक्षणवृत्तित्वं, क्षणस्यातीन्द्रियत्वेन प्रत्यक्षे भानासम्भवादिति वाच्यम्, प्रत्यक्ष प्रकारविधया तस्य भानासम्भवेऽपि संसर्गविधया तद्भानसंभवात्, अत एव सम्बन्धप्रत्यक्षे यावत्सम्बन्धिप्रत्यक्षं कारणमिति समवायसम्बन्धिनोऽतीन्द्रियस्यापि सम्भवेन समवायस्य न प्रत्यक्षमित्यभ्युपगन्तृवैशेषिकमते प्रत्यक्षे प्रकारतया समवायस्याभानेऽपि 'रूपवान् घटः' इत्यादिविशिष्टबुद्धौ संसर्गतया भानमिति ।
"
'www
१५९
किञ्च यथा घटज्ञान प्रकारकात्मविशेष्यकज्ञानमहं घटज्ञानवानिति भवति
,
तथा समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धेनात्मप्रकारकघटज्ञानविशेष्यकज्ञान