SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १६० शास्त्रवार्तासमुच्चयः। [प्रथमः मपि घटज्ञानमिति भवत्येव, नेच्छामात्रेण तस्यापह्नवः शक्यः कर्तुम् , विशिष्टबुद्धौ विशेषणस्याकारणत्वेऽपि विशिष्टप्रत्यक्षे विशेष्यं कारणं सर्वसम्मतमिति मयि घटज्ञानमित्यत्र विशेष्यस्य घटज्ञानरूपव्यवसायस्य ज्ञानत्वनिर्विकल्पकानन्तरक्षणेऽभावात् कथं तत्प्रत्यक्षम् ? । एतेन 'ज्ञानत्वनिर्विकल्पकजन्यज्ञाने निर्विकल्पककालवृत्तिव्यवसायलक्षणज्ञानलक्षणप्रत्यासत्त्या घटस्य भानसंभवात् तस्मिन् ज्ञाने तदानीमेवोत्पन्ने वर्तमानत्वस्य सतो भानमतो घटमहं जानामीत्य नुभवोपपत्तिः' इत्युक्तावपि न निस्तारः, ज्ञानत्वनिर्विकल्पानन्तरक्षणे विनष्टस्य व्यवसायस्य प्रत्यक्षानुपपादनात् , तदानीमुत्पन्नज्ञानानन्तरज्ञानमादाय घटमहं जानामीत्यभिलापस्य सम्भवेऽपि तज्ज्ञानस्य घटचक्षुस्सन्निकर्षाजन्यत्वेन घट; प्रत्यक्षानात्मकतया तद्विषयकज्ञानमादाय घटं पश्यामीति प्रयोगानुपपत्तेश्च, एतेन 'यदि च जात्यतिरिक्तस्य किञ्चिद्धर्मप्रकारेण भानमिति नियमात् 'जानामि' इति ज्ञानं ज्ञानत्वविशिष्टवैशिष्ट्यावगाह्येव, न तु ज्ञानत्वं ज्ञाने विशेषणीयतयाऽनवगाहमानमेव ज्ञानवैशिष्ट्यावगाहि, येन ज्ञान-ज्ञानत्वयोनिर्विकल्पकमपि ज्ञानात्मकविशेषणस्य ज्ञानं भवत्येव ततो ज्ञानवैशिष्ट्यावगाहि जानामीति ज्ञानं निर्विकल्पकानन्तरं संभवेदपि, विशिष्टवैशिष्टयावगाहिबुद्धिं प्रति च विशेषणतावच्छेदकप्रकारकनिश्चयो हेतुरिति जानामीति ज्ञानत्वविशिष्टज्ञानविशिष्टबुद्धौ ज्ञानत्वप्रकारकज्ञानविशेष्यकज्ञानमेव हेतुः, निर्विकल्पकं च न ज्ञानत्वप्रकारकज्ञानविशेष्यकमिति न ततस्तदनन्तरक्षणे जानामीति बुद्धिः, तदा ज्ञानत्वनिर्विकल्पानन्तरं 'मयि ज्ञानम्' इत्यात्मप्रकारकज्ञानविशेष्यकग्रहे सति तदात्मकज्ञानलक्षणप्रत्यासत्त्या जानामीति ज्ञानांशेऽलौकिकप्रत्यक्षं सूपपादम्' इत्यपास्तम् ; घटचाक्षुषरूपव्यवसायस्य नष्टत्वेऽपि तदंशेऽलौकिकाजानामीति प्रत्यक्षात् पश्यामीत्य पयोगात , पश्यामीति विलक्षणविषयतयाऽनुव्यवसाये विलक्षणविषयतया चाक्षुषस्य नियामकत्वेन विलक्षणविषयतया चाक्षुषस्याभावे विलक्षणविषयतयाऽनुव्यवसायस्यानुपपत्तेः । न चातीन्द्रियस्याकाशस्य चाक्षुषप्रत्यक्षं भवति तथापि चाक्षुषत्वांशे भ्रमजनकदोषान्निद्रायाम् 'आकाशं पश्यामि' इति ज्ञानमुपजायते, तच्च ज्ञानमाकाशविषयकज्ञाने चाक्षुषानात्मके दोषाचाक्षुषत्वाव. गाहीति तदंशे भ्रमात्मकम् , तथा घटं पश्यामीति ज्ञानमपि घटविषयकज्ञाने चाक्षुषभिन्ने दोषाच्चाक्षुषत्वावगाहीति तदंशे भ्रमात्मकमिति वाच्यम् , घट पश्यामीत्यत्र सर्वांशे प्रमाया एवानुभवात् ; तदिदमुक्तं स्याद्वादरत्नाकरे श्रीदेव
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy