________________
mww
स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः
१६१ सूरिभिः-किञ्च, इन्द्रियजं प्रत्यक्षं समिकृष्टे विषये प्रवर्तते, अतीतक्षणवर्तिनश्च ज्ञानस्य मनोलक्षणेन्द्रियसन्निकर्षों न युज्यते, ततः कथं प्राचीनज्ञाने मानसप्रत्यक्षवार्ताऽपि ?' इति । 'व्यवसायनाशक्षणोत्पन्नव्यवसायान्तरे ज्ञानत्वविशिष्टबुद्धिः' इत्यप्यत एव निरस्तम्, तद्धेतोश्चक्षुस्सन्निकर्षादेस्तदानीं नियतसन्निधिकत्वाभावात् , अनुमित्यात्मकज्ञानस्यानुमिनोमीत्यनुव्यवसायः परप्रकाशेनोपपादयितुं शक्यते, यतः प्रथमक्षणेऽनुमितिस्तदनन्तरमनुमितित्वनिर्विकल्पकं तदनन्तरं पुनरनुमि तिर्न सम्भवति तद्धेतोर्व्याप्तिज्ञानादेस्तदव्यवहितपूर्वक्षणेऽभावात् , अनुमितिभिन्ने तदानीं जायमाने ज्ञाने चानुमितित्वं नास्ति, अनुमिनोमीति ज्ञानं च सर्वांशे प्रमात्मकमेवेत्यतस्तदनुमितिस्वांशे भ्रमरूपमित्यपि वक्तुमशक्यम् , पूर्वव्यवसायविशेष्यकज्ञानस्य कथमप्यनुपपत्तेश्च । एतेन 'ज्ञानं ज्ञानत्वं च निर्विकल्पके भासते, ततो ज्ञानत्ववैशिष्ट्यं ज्ञाने, ज्ञानवैशिष्ट्यं चात्मनि भासते इति 'विशेष्ये विशेषणं तत्र च विशेषणम्' इति रीत्या घटमहं जानामीति ज्ञानप्रत्यक्ष ज्ञानत्वोपलक्षितज्ञानवैशिष्ट्यावगाह्येव न तु ज्ञानत्वविशिष्टज्ञानवैशिष्ट्यावगाहि, तेन तत्र न ज्ञानत्वप्रकारकज्ञानापेक्षेति तद्विनाऽपि तत्सम्भवति' इति निरस्तम्, एवं सति विशेषणतावच्छेदकप्रकारकनिश्चयानपेक्षस्य तस्य 'ज्ञानं घटीयं नवा' इति संदेहेऽप्यापत्तेश्च ।
यत्तु 'ज्ञानं ज्ञानत्वं च विशिष्टज्ञानविषय एव, अनुव्यवसायस्य विषयरूपविशेषणविषयकव्यवसायसाध्यत्वेन विशिष्टज्ञानसामग्रीसत्त्वात् , ज्ञानत्वमपि तत्र भासते सामग्रीसत्त्वात् , अंशे तत् सप्रकारकं निष्प्रकारकं चेति नृसिंहाकारम् , तत्रैव विशिष्टं ज्ञानत्ववैशिष्ट्यं च भासते, अनुमित्यादौ च न तथा, अनुव्यवसायेऽनुमितित्वाभावात् , इति 'वस्तुतस्तु' इति कृत्वा चिन्तामणिकृतोक्तम् ; तदसत्-सर्वत्राभावज्ञानव्यतिरिक्तप्रत्यक्षस्थले निर्विकल्पकप्रत्यक्षानन्तरमेव विशिष्टप्रत्यक्षम् , केवलमभावप्रत्यक्षस्थल एवाभावा-ऽभावत्वयोनिर्विकल्पक विनाऽपि विशिष्टप्रत्यक्षम् , ततः सार्वत्रिकप्रकारोपजीवनेन ज्ञानप्रत्यक्षस्थलेऽपि ज्ञान-ज्ञानत्वयोनिर्विकल्पकानन्तरमेव विशिष्टप्रत्यक्षस्वरूपं ज्ञानज्ञानं न्यायप्राप्तं तत् परित्यजतश्चिन्तामणिकृतः सार्वत्रिकप्रकारं विना क्वाचित्कप्रकाराभिधानस्य युक्तिबहिर्भूतत्वेन प्रयासमात्रत्वात् , यथा चाभावप्रत्यक्षस्य घटत्वाद्यन्यतमविशिष्टविषयकस्वनियमो येन किञ्चिदभावप्रत्यक्षं घटत्वाद्यन्यतमविशिष्टमविषयी
११ शास्त्र०स०