Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[न] यं शितभिक्षुपाशाः ॥ ३०२ ॥ यदपि च-अह तिपयाहिणपुव्वं सम्मं सुद्वेण चित्तरयणेण । गुरुणो निवेयणं सव्वहेव दढमध्यणो एत्थ ॥ ३०३ ॥ इति, 'दीक्षापञ्चाशको 'तगाथानुसारेण सम्यत्तवदायकगुरोरात्मनः सर्वस्व निवेदनात् । स्वसमर्पणमुखेन स्वीयत्वकरणं गुरोस्तदपि नान्यसुविहितभक्तिनिवृत्तिपरं किन्तु सम्यक्त्वदायक गुरुभक्तयतिशयख्यापनपरं योऽपि च “ सामाइयाइ खलु धम्मायरियस्स तिन्मि जा बासा । नियमेण होइ सेहो उज्जुमओ तदुवरि भयणा ।। ३०४ ॥ इत्यादिकाभाव्यव्यवस्था प्रतिपादिता साऽपि सम्यक्तवदायक गुर्वपेक्षैव, न कुळक्रमायातगुर्वपेक्षा । वर्षत्रयं यावद्धर्म्माचार्यस्य भवतीति भणनादन्यथानुपपत्तेः । तत्रापि वर्षत्रयमर्यादां कुर्वता धर्माचार्या भाव्यत्वस्य अनन्तरमन्यत्रापि सुविहितगुरुपार्श्वे संयमप्रतिपत्तिरुक्तैव । तेनात्मीयपर विभागो गुरुषु नास्ति श्राद्धानां । तथाऽणंत गघयगुलगोरसफासुयपडिळाभणं समणसंघे” । इति गाथापूर्वार्द्धन सर्वश्रमण संघविषयं दानविधिं प्रतिपादयद्भिरपि स्वपरविभागो गुरुविषयो निरस्तः । असइ गणिवायगाणं तदस्स सम्वस्स गच्छस्स । इत्युतरार्द्धन यो विशेषः स तु धर्माचार्यस्य दुःप्रतीकारत्वेन तस्मिन्नधिकभक्तिसूचनार्थः । नत्वन्यः सुविहितदान निवारणार्थः । तस्माच्छ्रायानामात्मीया एते परे एते सुविहितगुरव इति नास्ति । ननु तर्हि कथमस्तीत्याह- जिनवचनरत्नमण्डनमण्डिताः सर्वज्ञवाक्यमणिभूषणभूषिता ये सर्वेऽप्यतृतीयद्वीपवासिनो भारतवर्षवासिनो वा ते स्वगुरव आत्मीया गुरवः स मानत्वात्तेषां यतः एकस्य हीलया सर्वेषां हीलनादेकस्य पूजया सर्वेषां पूजनाश्च । यदुक्तम्-- भरहेरवयविदेहे पन्नरस विकम्मभूमिगा साहू । इवकम्मि हीलियम्मि सव्वे ते हीलिया हुंति ॥ ३०५ ॥ भरहेरचय विदेहे
For Private and Personal Use Only

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282