Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 250
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्टिशतक प्रकरणम्॥ ११२॥ सटीक० AREADLINES MORECAMERAR तो रोगविशेषा न कोऽपीति व्याख्या-ये केचिदमादुर्भुतसद्विवेका मानयित्वा भगवदुक्तधर्माणीकरणेन पूजनादिना वा जिनेन्द्र वीतरागं पुनरनन्तरं लोकाचाराङ्गीकरणादिना कारणेन प्रणमन्ति नमस्कुर्वन्ति । ' इयरदेवाणं'ति प्राकृतत्वाद् द्वितीयार्थत्वं षष्ठयाः । इतरदेवान् हरिहरब्रह्मादीनां रागादिकदर्थितत्वेनैव च तेपामितरता । तेषां च रागादिकदर्थितत्वं तद्भक्तैरेवोक्तं यथाप्रियाकृते शृङ्खलप्तां मुरारिः, शशी कलङ्क रविरङ्गतक्षम् । देहातां शम्भुरुरीचकार, प्रेम्णो विकारः खलु दुर्निवारः ।। ३८० ॥ तेषां किमित्याह-मिथ्यात्वमतस्मिंस्तदिति प्रत्ययरूपं विपरीतं दर्शनं तदेव सन्निपातो वात. पित्तश्लेष्मणामेकत्र मिलनेनोद्भूतो रोगविशेषो मिथ्यात्वसन्निपातस्तेन ग्रस्ताः कवलीकृता व्याप्ता इति यावत् । तेषां मिथ्यात्वसन्निपातग्रस्तानां को वैद्यः ? को भावभिषगपि तु न कोऽपीति । यथा सन्निपातग्रस्तानां प्रायो वैद्यो न प्रभवति । यतः-वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमनियमेऽप्येकदा सन्निपातस्तदा देहसंहार इत्युक्तं । तथा मिथ्यात्वसन्निपातग्रस्तानां सद्वचनोपदेष्टभाववैद्यो, न मिथ्यात्वसन्निपातमपनेतुमलं, सन्निपाततुल्यता च मिथ्यात्वस्य सुन्दरासुन्दरवस्तुनः साम्यापादनात भवति । हि सान्निपातिकस्य कर्पूरादौ सुन्दरद्रव्ये पुरीषादौ वा ऽसुन्दरद्रव्ये समाना बुद्धिः। सुन्दरद्रव्ये विष्टा वा तथा मिथ्यात्विनोऽपि भगवति जिने सर्वदोषरहिते इतरदेवेषु च समाना मतिर्जिने विष्टा वा । तत साधुक्तं ये जिनेन्द्र मानयित्वा पुनरितरदेवान् प्रणमन्ति, मिथ्यात्वसन्निपातग्रस्तानां तेषां न कोऽपि वैद्य इति । ते दुश्चिकित्साः अन्यथैवं विधं सुधारसायमानं जिनधर्ममवाप्य कथं पुनस्तादृशे हरिहरगोत्रदेवतापूजनश्राद्धकरणादिके जाउथे रज्यन्ते, यतः-करप्रकर-काव्य--२ विज्ञाय धन्या जिनधर्ममम रज्यंति शय्यम्भववन्न पातस्तदा देइसहार 13 G ॥२१२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282