Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 253
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CE % UCAUSMSASARAM पञ्चाणुव्रतानि गुणास्त्रयः। शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम् ।। ३८३ ॥ तस्मान्न ते श्राद्धाः, न पूजितो भवति द्रव्यभावभेदवत्या पूजया तैः परस्परमत्सरादिकारणेन स्वस्वचैत्यादन्यत्र चैत्ये चैत्यद्रव्यविक्रायकैर्जि ननायो वीतरागो । भगवत्पूजा हि मनःशान्तये क्रियते-'पूयाए मणसंती मणसंतीएय सुहवरं झाणमित्यादि' वचनात् यदि साऽपि संक्लिष्टैः क्रियते, तदा जिननाथो न पूजिनो भवति, ययोक्तकरणाभावात् । तर्हि तत्ताशं गुरुश्रावकजिनपूजादिकं किमित्याह--मूढानां मूर्खाणां मोहस्थितिमूढता मर्यादा सा तादृशी ज्ञायते समनिपुणैः सिद्धान्ततत्त्ववेदिभिः । समयनिपुणा हि जानन्ति जिनचैत्यानामपि स्वपरभावापेक्षया पूजां कुर्वतो ममीकारादिना सङ्क्लेशयुक्तं भवति चेतः कुन्तलदेवीवत् । यतः--तव सुत्तविणयपूया न संकिलिट्ठस्स हुँति ताणाई । खवगागमि पन्तलदेवीउदाहरणम्- अवनिपुरे जितशत्रुनृपस्य पट्टदेवी कुन्तला अर्हद्धर्मनिष्ठा । तवचसा तस्याः सपत्यः सर्वा धर्मवत्यो जाताः कुन्तला बहुमन्यन्ते । अन्यदा सर्वराझीनां नव्यप्रासादेषु निरूपद्यमानेषु कुन्तलाऽतुच्छमत्सराकुला स्वप्रासादं तामां चैत्येभ्योऽधिकतरमकारयत् । पूजानाटयादि विशिष्टतरं कारयति । सपत्नी चैत्याविष प्रद्वेषं वहति । ऋज्व्यः सपत्यस्तु तस्याः कृत्यं नित्यमनुमोदन्ते । एवं मत्सरग्रस्ता दुर्दैवाद व्याधिबाधिता मृत्वा चैत्यपूजावेषेण शुनी जाता । स्वचैत्यद्वारे पूर्वाभ्यासात्तिष्ठति । अथ तत्रागतः केवली तं प्रति अ. भ्यराज्ञीभिः कुन्तला क्व गता" इति पृष्टं । ज्ञानिना यथावत्प्रोक्तं । ततस्ता: परमसंविग्नास्तस्याः शून्याः भक्ष्यं क्षिपन्त्यः सस्नेहं प्राहु:-हे पुण्यवति । धर्मिष्ठयाऽपि त्वया किमेवं मुधा प्रद्वेषकृतः येनेदृग्भवः प्राप्तः ? इति तदक्तमाकर्ण्य प्राप्तजातस्मृतिः सा शुनी वैराग्यं प्राप्ता प्रभुमूर्तिसम्मुख स्वपापमालोच्य प्रतिपन्नानशना मृत्वा वैमानिकी भूता । तस्माम्मत्सरो न विधेयः । % 12 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282