Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीरणसिंह
www.kobatirth.org
सिंहं प्रत्याह भो भद्र !, याचस्व स्वमनीषितम् । सोऽवादीत् दूर्लभं लोके, दर्शनं प्रापि तन्मया ॥ ११५ ॥ येनाधर्माम्बुधेः शोषो, येनारोधि गतिद्वयी । येनापवर्गकामिन्यः संगे दूतायिता ध्रुवम् ॥ ११६॥ युग्मम् || तथापि किञ्चित् याचस्व, न मोघं देवदर्शनम् । तद्यर्थकिरणैश्छद्धि, निःस्वभूछाय सञ्चयम् ॥ ११७ ॥ इत्युक्ते सति यक्षेणोक्तं श्रीकनकपत्तने । कनकशेखरेशस्य सुता कनकवत्यसि ॥ ११८ ॥
तस्याः स्वयंवरं श्रुत्वा, गन्तव्यं झटिति त्वया । शङ्का काऽपि न कर्त्तव्या, त्वया भक्तया वशीकृतः ॥ ११६ ॥ यत्र कुत्रापि साहाय्यं करिष्यामि स्मृतस्तव । एवमुक्खा स यक्षोऽपि दिव्यकस्मात्तिरोदधे ।। १२० ।। तथेति रणसिंहोऽपि ततोऽगान्निजवेश्मनि । सोऽपि यक्षेश्वरप्रोक्तं, वृत्तान्तमवदत्प्रियाम् ।। १२१ ।। अन्तरुल्लसितानन्दा, साऽब्रवीदयितं प्रति । फली धर्मद्रुमो ह्यत्र, चित्तोर्व्यारोपितस्त्वया ।। १२२ ।। अश्रौषीत्कतिभिर्घस्रः, स्वयंवरणमण्डपम् । आरब्धं कनकेशेन, सुताया जनताऽऽननात् ।। १२३ ॥ प्रतिक्ष्मापं प्रतिक्ष्मापं, दूतान् प्रेक्ष्य क्षमाभुजा । आकारिताः समे भूपा - अश्विनीकुमरोपमाः ।। १२४ युग्मम् ॥ संयोजितोज्ज्वललघु, – महोक्षयुगलस्तदा । सिंहोऽपि लाङ्ग-लारूढः, पर्शुपाणिर्मदोद्धरः ।। १२५ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
NOTEEYEEMWMI
चरित्रम्
॥ १३ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72