Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री रणसिंह
www.kobatirth.org
ततो जोत्कृत्य निर्गत्य, भूपोपान्तं समेऽगमन् । तं नत्वा विनयोपेताः, पुरुषोत्तमजल्पितम् ।। सर्व विज्ञापयामासु, पुरः कनकशेखरम् ।। ४३३ ।। षट्पदः ।। राजंस्तदर्द्ध पथतो, बलितः कुमरोत्तमः । तद्दिनाद् रत्नवत्येषा, तस्या शयैव संस्थिता ॥ ४३४ ॥ साम्प्रतं प्रेषयत्वेनं, कुमारं मारसंनिभम् । इति श्रुत्वा नृपोऽवादीद्, भागिनेयी तु सा मम ॥ ४३५ ॥ ततो भूपेन सिंहस्य, तदुक्तं भणितं तदा । स्वसुताया इवोद्वाह, तस्याः कार्यों मयैव हि ।। ४३६ ॥ स तदादेशतः सर्वाभिसारेण बलान्वितः । शुभा शुभलग्ने च प्रतस्थे विहगोत्तमे ।। ४३७ ।। कतिभिर्वासरैः प्राप, चक्र पूर्वाह्यकाननम् । निवेश्य वाहिनीं याति, स्वयं चक्रभृतोऽर्चने ॥ ४३८ ॥ tar स्फुरितं तस्य दक्षिणाक्षण सत्वरम् । ततश्च तेन विज्ञातं प्रियमेलो भविष्यति ॥ ४३९ ॥
उक्तश्च
शिरसः रूपुरणे राज्यं, सन्याक्षस्य प्रियागमः । दोः स्फुरणे प्रियजन --- वल्लभालिङ्गनं भवेत् ॥ ४४० ॥ पुष्पाणि पुष्पबटुकः, कुमारस्य कराम्बुजे । दिव्यानि पञ्चवर्णानि दत्त्वा मूल्यं यथेप्सितम् ॥ ४४१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रम्
॥ ४३ ॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72