Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री रणसिंह
MEDI
www.kobatirth.org
अथाsप्राक्षीत्प्रयां सिंहो, रहः कान्ते ! बटुः स च । दुःखान्यनुभवन्नस्ति वराको विधिसन्निधौ ॥ ५२८ ॥ पश्चात्कर्णौषधीलाभ,--मुख्योदन्तनिवेदनम् । देव्या- सव्यासनश्चक्रे, स मुदा स्वामिनः पुरः ।। ५२६ ।।
किञ्च
कुर्वता विश्वनिर्माणं, विधिना दुष्टबुद्धिना । प्रतिपक्षयुतं वस्तु, चक्रे क्ष्वेडसुधादिवत् ।। ५३० ।। देवी दध्यावसौ राजा, रत्नवत्यां पराङ्मुखः । निष्प्रेमातो भवेदेषोऽपवादो मे जगत्त्रये ।। ५३१ ॥ कूट कोटि युताऽप्येषा, सापराधाऽनुशष्टिभाग। तथापि ह्य पकर्त्तव्यं मया रत्नवतीं प्रति ।। ५३२ ।।
यत उक्तम्
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः, स साधुः साधुरुच्यते ।। ५३३ ॥ ततः कदाचिदानन्द, - मये रहसि भूपतौ । स्ववरं प्रार्थयामास, प्राग्दत्तं कमलावती ॥ ५३४ ॥ अथोऽ चे कुमरो देवि !, यत्तुभ्यं रोचतेतराम् । तच्चं कथय यत्स्वैरं यथा यच्छामि तद्वरम् ।। ५३५ ।। यद्येवं तावदीश! त्वं, समदृष्टचा विलोकय । मामेनां च यतस्ते मे कीर्त्तिर्विश्वे विजृम्भते ।। ५३६ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
& MAHARANAEHA
चरित्रम्
॥ ५३ ॥

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72