Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
लोकः स्त्रीवशतः स्त्रियोऽतिचपला लोभैकसज्जा द्विजाः,
____साधुः सीदति दुर्जनः प्रभवति प्रायः प्रविष्टःकलिः ॥१६॥ सर्वत्रोद्गतकन्दला वसुमती वृद्धिर्जडानां परा, जातं निःकमलं जगत्सुमलिनैर्लब्धा घनैरुन्नतिः । सर्पन्ति प्रतिमन्दिरं द्विरसनाः संत्यक्तमार्गो जनो,--वर्षाणां च कलेश्च संप्रति जयत्येकैवर राज्यस्थितिः ॥६१७॥
इत्यादि। एवं तावन्निजां स्फूर्ति, सौवराज्यस्थितिं तथा । प्रकाश्य रणसिंहस्य, भूपस्य पुरतः पुनः ॥ ६१८ ॥ स्तोकमात्राऽपि मे आज्ञा,--ऽतिक्रमो मा करिष्यसि । इत्युदित्वा छलित्वाश्थ, कलिभूपस्तिरोदधे ॥ ६१६ ॥ कलिनोक्तं वचश्चित्ते, धार-धारं धराधिपः । यथागतोजनों लोकाः, सर्वे स्वस्थानमाश्रिताः ॥ ६२० ॥ न कोऽपि तल्लचयितु, क्षमापीठे क्षमोऽस्ति भोः !। देवो विद्याधरो वापि, दानवो मानवोऽथवा ॥ ६२१ ॥ ततो भूवल्लभो नीती, विपरीतमना ह्यभूत् । राज्यं प्रपालयामास, पैत्र्यं पूर्ववदुत्कटम् ॥ ६२२ ॥ खलन्ति पिशुनास्तस्य, शासनं यमशासनम् । नीचानां दुर्वचोबाणा,--लगन्ति श्रवणे प्रभोः !॥ ६२३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72