Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् राजरङ्क समोरस्क,--स्तृणस्त्रणसमानधोः । मुनिर्धर्माशिषाऽऽसंश्या,-ऽऽरन्धवान् धर्मदेशनाम् ॥ ६३४ ॥ तथाहिअस्मिन्नसारे संसारे, भविनां भ्रमतां मिथः । युग्मजानामपि प्रायः, सुखदुःखोदयः पृथक् ॥ ६३५ ॥ सुखसाधनं हि सुकृतं, दुष्कृतं दुःखसाधनम् । विभाव्येदं सुखाकाङ्क्षी, प्राणी धर्म समाचरेत् ।। ६३६ ॥ समये समये प्राणी, भावेन येन येन हि । प्रवेशं कुरुते तेन, तेन बन्धः शुभाशुभः ॥ ६३७ ॥ आश्रवद्वाररोधेन, शुभं कर्मार्जग्रेज्जनः । अशुभं वैपरीत्येन, इति प्रोक्तं जिनागमे ॥ ६३८ ॥ प्राणिहिंसा--मृषावादा,--ऽदत्वाऽ-ब्रह्म-परिग्रहाः । पञ्चैते आश्रवा ज्ञेयाः, स्थगितच्याः प्रबन्धतः ॥ ६३६ ॥ प्रवाहैः पूर्यते जीव,-सरसी पापवारिभिः । स्थगितेष्वेतेषु तदा--नागमः प्राकनक्षयः ॥ ६४०॥ वत्स ! एषोऽस्त्यभिप्राय, स्तव चेतसि वर्तते । आश्रवद्धाररोधेन, पापं पुण्यं विपर्ययात् ॥ ६४१॥ तद्द कलिपिशाचेन, छलितष्ठगितोऽथवा । किं वा दुर्मित्रसंसर्या, मन्ये चित्तं चलाचलम् ॥ ६ २॥ श्वेतं वस्तु समं पीतं, विपर्यासेन पश्यति । यथा कनकबीजस्य, भक्षणान्मानत्रो भृशम् ॥ ६४३॥ ॥६४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72