Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् कुमार ! त्वद्राि साऽथ, सुस्थिता विधिसंनिधौ । उपविष्टा मया दृष्टा, प्रहृष्टा गुणसम्पदा ।। ५०७॥ यधुच्यते निजात्मानं, प्रमुच्य विधिसंनिधौ । तामानयामि सत्यं चेत्कृतार्थोऽहं ततोऽभवम् ॥ ५०८॥ कुमारो वक्ति भूदेवा,--ऽद्यापि कार्यविलम्बनम् । किं क्रियते द्विजो वक्ति, विस्मेर कमलाननः ।। ५०६ ॥ राजन् ! सद्ध यान लग्नादि, प्रसीदन्ति समाः कलाः । सद्दक्षिणां विना नैव, तेन देहीति दक्षिणाम् ॥ ५१० ॥ पुरा द्विज ! निजात्माऽसौ, पश्चात्स्वीयं मनः पुनः । आन्तरं बहिरङ्ग च, दत्तं ते दक्षिणापदे ॥ ५११॥ अस्तु तावत्तवात्मादि, त्वत्पावं एव निश्चितम् । मार्गयामि यदा यद् य,--तत्तद्विश्राम्यतां हि मे ॥ ५१२॥ एवमेवास्तु भू देव !, घनवागडम्बरेण किम् ? । प्राणप्रियां समानीय, हर्षोत्कर्ष कुरु द्विज !॥ ५१३ ॥ ततस्ति रस्करिण्यन्त,--विधाय मण्डलादिकम् । ध्यानालीनः सुयोगीव, तस्थावेकान मानसः ॥ ४१४ ॥ अधना दर्शनीया सा, दिष्ट या सञ्जोवनौषधी । इत्युक्त रणसिंहरूपा, नन्दः प्रादुरभून्महान् ।। ५१५ ॥ मृताऽप्यागच्छति ध्यानाद्,--देवी कमलवत्यहो ! । एवं सर्व पुरं भूप,--स्तदाश्चर्यमयोऽभवत् ॥ ५१६ ॥ अहो ? अहो ? द्विजेशस्य, माहात्म्यं ह्य कजिह्वया । कथं वर्णयितुं शक्य,--मित्यालापपरो जनः ॥ ५१७॥ ॥५१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72