Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
तया प्रेरितया चक्र, कथमप्यनया यदि । दक्वलीनोचितं कर्म, राजंस्तत्क्षम्यतां मयि ।। ५३७ ॥ निघृणा चञ्चला योषित, कुशीला स्वार्थ साधना । एवं विदधती देवी, स्वापवादमपाकरोत् ॥ ५३८ ॥ अथान्यदा कुमारेण, भूपः कनकशेखरः। विज्ञप्तः सोऽनुजानाति, प्रयाणाय विवेकधीः ॥ ५३६ ॥ भूरि भूपणकल्याण,--दासदासीवरांशुकान् । दत्वा संमानिता पुत्री, पतिता पितृपादयोः ।। ५४०॥ चतुरङ्ग-चमूर्दिन्य,-वासः स्वर्णाद्यलङ्कतीः। दत्वा श्रीरणसिंहोऽपि, विसृष्टः प्रणतेः पुरः ॥ ५४१ ॥ अनुज्ञाप्य च भूमीन्द्र, प्रातिष्ठत ततः पुरात । श्रीसिंहः सपरीवार,-श्चतुरङ्गबलान्वितः ॥ ५४२॥ क्रमेण पाडलीखण्ड,-सीमभूमिमवाप सः । तावत्पूर्व सुविज्ञात,--स्वसुताद्भुतसत्कथः ॥ ५४३ ॥ सत्सेनः कमलसेनः, संप्राप्तः पुनरन्तरा । अनयो महिमानों, द्वात्रिंशल्लक्षणान्वितः॥ ५४४ ॥ साधुः प्राघूर्णकस्त्वेष,--इति हेतोः स्ववेश्मनि । नीत्वा कमलसेनेन, सिंहः सन्तोपितो मुदा ।। ५४५ ॥ युग्मम् ॥ कमलेवाऽऽश्चर्यकरी, कमलबती कमलचारुतरवदना । कतिचिद्दिना न्युषित्वा, गौरविता तेन भूपेन ॥ ५४६ ।। कमलिन्याम्बया स्वाङ्क--मारोप्याहिनता तदा । आलिंग्यऽऽश्वास्य तनया,--ऽनुवाच प्रेमपूर्वकम् ॥ ५४७ ॥
॥ ५४॥
For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72