Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् मूढ! जल्पसि किं चैव,--मनृतं मृत्युदायकम् । लोकद्वयविरुद्ध च, दुर्गत्यध्वनि दीपकम् ॥ ५६०॥ राज्ञाऽऽदिष्टस्तलारोऽथ, वध्यभूमौ तमर्जुनम् । सर्वाङ्गकृतवध्याभ, शूलोपान्तं निनाय तम् ।। ५६१॥ हूतावता तत्र कोऽप्येको, विकरालोऽतिकालरुक । दारुणः पुरुषोऽकस्मा,-दुपतस्थे भयानकः ॥ ५६२ ।। तेनोचे भोः पुरीरक्षायद्यनं मारयिष्यथ । सकलानपि रे युष्मान्, मारयिष्याम्यहं तदा ॥ ५६३ ॥ उक्तिप्रत्युक्तितस्तेषां, संजातः सत्यसङ्गरः। एकेनैव जिताः सर्वे, विष्णुनेव सुरारयः ॥ ५६४ ॥ ततः प्रणश्य भूपाला,-राज्ञः शरणमागताः। सिंहेशं कथयामासु,--/तवृत्तान्तमादितः ॥ ५६५ ॥ श्रुत्वा क्रोधारुणो राजा, भृकुटी भीषणाननः । सर्वां युद्धादिसामग्री, विधाय निरगात्पुरात् ॥ ५६६ ॥ ततः सर्वाभिसारेण, युध्यमानस्य भूपतेः । तेन सार्द्ध मगात्कालो, भूयिष्ठः शिष्टनीतितः ॥ ५६७ ॥ कुन्तासिबाणनाराच,-चक्रकोदण्डतोमराः । सल्लक्ष्या अपि निर्लक्ष्याः, संजजस्तं प्रति प्रभोः ! ॥ ५६८ ॥ ततः श्रीरणसिंहेन, ज्ञातं नैष पुमानहो ! । देवो वा दानवो वाऽपि, यक्षो वा राक्षसोऽथवा ॥ ५६६ ॥ गन्धाढ्यधूपहस्तेन, भूपेनाभाणि सुन्दर ! । अज्ञातपरमार्थस्य, दोषो, मे नात्र कश्चन ॥६००। ॥५६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72