Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् कर्पूरपूरैमृगनाभिमिश्रः, कृष्णागुरूत्कृष्ट--तुरुष्कधूपैः । मन्दारपुष्पप्रकरैः सुगन्धै;-री चकाराभयदप्रभूणाम् ॥ ५५६ ॥ तद्भक्तिभङ्गी सन्तुष्टः, प्रत्यक्षीभूय यक्षराट् । आरव्यातिस्वपितू राज्य,--मङ्गीकुरु महाबल! ॥ ५६०॥ मयि गोप्तरि सत्यन्यः, को राज्यमधितिष्ठति । विजयसेनभूपस्य, गरीयो विक्रमावधेः ।। ५६१ ॥ तद्वाचाऽनन्तरं सिंहो, नत्वा पार्श्वपदाम्बुजम् । संप्राप्तो विजयपुरं, सबलः स दलान्वितः ॥ ५६२ ॥ सन्मुखागमनासक्तः, पुरीशोऽल्पपरिच्छदः। कोट्टद्वारं संनिरुध्य, तस्थौ सिंहोऽपि तत्र हि ॥ ५६३ ॥ कृतान्नतृणकाष्ठाम्भो,--निरोधो रोधदुर्धरः । सिंहः सिंह इवाजेय,-विक्रमोऽभून्महीप्रभोः ॥ ५६४ ॥ ढोकेषु जायमानेषु, वासरं वासरं प्रति । यन्त्रवाहनटिंकुल्या,--गोलकोत्क्षेपणेषु च ॥ ५६५॥ पतितेषु च कोट्ट षु, चीयमानासु खण्डिषु । मुश्चत्सु बाणपुजेषु, वाहयत्सुहवायकाः ॥ ५६६ ॥ एवं वीरेषु कुर्वत्सु, मासैको व्यतिचक्रमे । न पुनर्वैरिणां नाशो, नो त्रासश्च मनागपि ॥ ५६७ ॥ सांनिध्यकारियक्षेण, शत्रुसेनासु दर्शितम् । शूच्यभेद्यं नभोलम्बि,--ध्वान्तमजनसंनिभम् ॥ ५६८ ॥ तदवेक्ष्य क्षमानाथः, प्रत्यर्थी सपरिच्छदः। भीतो गद्गदवाक् कम्प,--देहो नंष्ट्वा गतः क्वचित् ॥ ५६६ ।। MARRRRRRRRRRRRH ॥५६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72