Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
तत्पापमलिनात्मानं, शोधयामि निजं ततः । ज्वालाजालकरालेऽपि, चितामा सर्वसाक्षिकम् ॥ ४८४ ॥ इत्याज्ञां प्राप्य भूपस्य, भृत्यैस्तत्साधनोद्यतैः। चितां कृत्वाऽतिकृच्छे ण, ते सिंहाय न्यजिज्ञपन् ॥ ४८५ ॥ ततः स सपरीवारः, प्रतिषिद्धोऽपि भूपतिः। कदाग्रहग्रहग्रस्तः, प्रचचाल चितां प्रति ॥ ४८६ ॥ तदा नपोक्तं विज्ञाय, पौरलोक स्तिरस्कृता । निकृष्टचेष्टयाऽऽविष्टा, पापिष्टा गन्धमूषिका ॥ ४८७॥ एतस्याश्चेष्टितं ह्यत,-देतन्मृद्धिपतत्तरम् । इत्युदित्वा जनैः सर्वै,-निन्द्यमाना पदे पदे ॥ ४८८॥ लूनपुच्छश्रुतिद्वन्द्व,-खरारूढां विधाय ताम् । विगोप्य लोकप्रत्यक्षं, राज्ञा निर्वासिता पुरात् ॥ ४८६ ॥ यतो नारीजनोऽवध्य, इत्यतो रणसिंहराट् । मन्त्रिसामन्तभूपायै,-र्यमाणो मुहुमुहुः।। . . मरणैकाग्र्यरसिक,---श्चितादेशमशिश्रयत् । जातो हा हा रखोदग्रः, सर्वत्र नगरे तदा ॥ ४६१॥ श्वेतांशुगन्धमाल्यादि,---भूषणभूषितो नृपः । कमलवत्यनुरागाद्-रक्तचित्तस्तदाऽभवत् ॥ ४६२॥ चितां प्रविष्टः कुमरः, यार्थोऽग्निःप्रगुणीकृतः । पुरुषोत्तमभूपेन, विज्ञप्तो वाडवस्तदा ॥ ४६३ ॥ भो । तवायं परं मित्रं, त्वदचोलचनाक्षमः । तेन त्वया तथा वाच्यो, यथा पापान्निवर्तते ॥ ४६४ ॥
॥४८॥
For Private and Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72