Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीरणसिंह
www.kobatirth.org
यथा हि गन्धमूषायाः प्रेषणं विट्प्रयोगतः । परपुंसः प्रवेशश्थ, विद्व पोश्चाटनादिकम् ॥ ४७४ ॥ तत्सर्वं कुमराध्यक्षं, तयाऽऽख्यातं निशम्य च । तद्दोषं तन्मुखेनैवा, --ऽङ्गीकार्य निर्वृताऽभवत् ॥ ४७५ ॥ कलङ्क-पङ्कं प्रक्षाल्य, कस्को वा नोज्ज्वलो भवेत् । तच्छ्रुत्वा रोषताम्राक्षो, --भृकुटीविकटाननः ॥ ४७६ ॥ सापराधां रत्नवतीं, निर्भर्त्स्य च ततो नृपः । मद्दष्टिपथतो दूरं, गच्छ गच्छ विशाधमे ! ॥ ४७७ ॥ आः पापे ! किं त्वयाऽकारि १, दुष्कृत्यं श्वपचोचितम् । विक्षेपागाढदुःखौधे, ययात्मा नरकावटे ॥ ४७८ ॥ दानमानादिभिर्नारी, मानिताऽपि स्वभावतः । आसक्ति क्वापि नोधत्ते, स्त्रीचरित्रं हि दुस्तरम् ॥ ४७६ ॥
यत उक्तम्
प्राप्तु ं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥ ४८० ॥ नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ॥ ४८१ ॥ ततोऽलीकलङ्कन, तदा निर्धाटिता मया । ततोऽपमानती देवी, पश्ञ्चत्वं प्राप सत्वरम् ॥ ४८२ ॥ भो भो भृत्याः ! समानीय, काष्ठानि कुरुत स्वयम् । मत्प्रासादप्रत्तोल्यां हि, सुसञ्चां महतीं चिताम् ॥ ४८३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रस्
॥ ४७ ॥

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72