Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीरणसिंह
www.kobatirth.org
विचित्रोल्लोचसंयुक्तं, सुधाधवलितोत्तमे । प्रासादे स्थापयामास कुमारं पुरुषोत्तमः ॥ ४६३ ॥ दैवज्ञदत्तसल्लग्ने, जाते माङ्गल्यनिःस्वने । सिंहेन रत्नवत्याश्च वृत्तमुद्वाहमङ्गलम् ॥ ४६४ ॥ ततो हरिकरिग्राम, - पुरस्वर्णाद्यलङ्कृती: । तदा विश्राणयामास, तस्मै श्रीपुरुषोत्तमः ॥ ४६५ ॥ कतिचिद्दिनानि तत्रास्थात्, कथाकौतूहलादिभिः । द्विजेन रत्नवत्या च समं सौख्यं समुद्वहन् ॥ ४६६ ॥ अन्यदाऽवसरे प्राप्ते, पृच्छद् रत्नवती पतिम् । कीदृक् सा कमलवती, मृताऽपि त्वन्मनोहरी ॥ ४६७ ॥ सोऽवोचत्पूर्वमागच्छन्, त्वत्पाणिग्रहणेहया । नानामनोरथैरर्द्ध', - निगमाद्वालितो यया ॥ ४६८ ॥ रम्भा - गौरी - रति- प्रीति, --कमलाद्या अनेकशः । या अभूवन् तकास्तस्याः, कलां नार्हन्ति षोडशीम् ॥ ४६६ ॥ ततः केनोपमानेन, तत्स्वरूपं त्वदग्रतः । निरूपयामि हे देवि !, सर्वातिशयसुन्दरम् ॥ ४७० ॥ किश्व दुर्विधिना चक्रे, मम दुर्दैवयोगतः । आवयोर्विरहस्तेन, परिणिन्ये मया त्वकम् ॥ ४७१ ॥ स्वादिष्टं मृत्युहृद् याव, - नाप्यते परमामृतम् । तावत्तृषापहं वारि, नो पीयेत तृषादितैः ॥ ४७२ ॥ ततश्च रत्नवत्याख्यत्, सामर्ष स्वाभिमानतः । सोल्लासं प्रति पृथ्वीशं, निश्शेषनिजचेष्टितम् ॥ ४७३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रम्
॥ ४६ ॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72