Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
मूखमुख्येन किन्त्वेत-दाजन्मप्रभृति त्वया । प्राणापहारकं वैरं, सर्वैः-सह समर्जितम् ॥ १४८॥ भूभृत्सु सत्स्वयं शीरी, कन्यां लात्वा व यास्यति ? । यमातिथिं विधायैनं, ग्रहीष्यामो वयं कनीम् ॥१४६॥ तदा च चण्ड सिंहेन, प्रेरिताः सूरभूधवाः । स्वबुद्ध या क्षिपिता माला, न तु ताताऽज्ञया तया ॥ १५ ॥ तत्कथां मूलतो वक्तुं, श्रीकनकेश्वरं प्रति । दूतोऽथ प्रेष्यते दक्षो, मेधावी वाकपटुः खलु ॥ १५१॥ कथाप्यते पुनस्त्वेवं, त्वत्पुत्र्या मूढभावतः । स्वकुलानुचितं चक्र, लोकहासः स्फुटोऽभवत् ॥ १५२ ।। पुनः स्वयंवरं कृत्वा, निखिलेष्वपि राजसु । मालाक्षेपेण हे कन्ये ?, मनोऽभीष्टं वरं वण ॥ १५३ ॥ नो चेत्संग्राम सामग्री, कुरुष्वेति ततो नृपः । गत्वा तेनाखिलं तस्मै, नमस्कृत्य निवेदितम् ।। १५४ ॥ राज्ञाऽवादि त्वया दूत ?, गत्वा वाच्यं नृपाग्रतः । नास्त्यत्र दोषलेशो मे, पुत्र्या ह्य तत्स्वयं कृतम् ॥ १५५ ॥ अथ चेत्पुनरप्येतत्, कार्यते वरमण्डपः । अकृत्यादत्यकृत्येना,-ऽयशस्तरं नदत्यहो ॥ १५६ ॥ पुच्या वृतः प्रमाणं मे, इति श्रुत्वाऽन्यभूधवाः । वज्राहता इवपेतु,-रमोच्छवसिताः पुनः ॥ १५७॥ अथ ते भूभुजः प्रष्टुं, प्रवृत्ता दुष्टचेतसः । रे रे हालिक ! पापात्मन् !, किं कुलं ते ? प्रकाश्यताम् ॥ १५८ ॥
BARAMAKAR
For Private and Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72