Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R श्रीरणसिंह चरित्रम् स्वयं तु तस्य नेपथ्यं, परिधाय नृरूपभाक् । सिंहपाचे समासीना, तेनाप्यालिङ्गिता तु सा ॥ ३०७॥ तस्या वेषं सनिर्विश्य, पाणिग्रहणमण्डपे। आजगाम सुमित्रोऽपि, विवाहकृतमङ्गलः ॥ ३०८ ॥ सुमङ्गलापि रामस्या,- महाकपट नाटिका । कूटनन्यवधूपान्ते, समागाद् वक्रवाक्यवाक् ॥ ३०६ ॥ ततो गणकराजेन, वेदोच्चारपुरस्सरम् । तल्लग्नं साधयामास, संमोदभरचेतसा ॥३१०॥ ततो वैवाहिके कृत्ये, निवृत्ते वासवेश्मनि । भोगाङ्गसारे भीमोऽथ, सवधूको ययौ मुदा ॥ ३११॥ सस्नेहलैः सुमधरैः, कोमलैः कामदीपकैः । बचोभिर्भाषयामास, तां नवोढां मुहुर्मुहुः ॥ ३१२ ॥ भृशमालप्यमाणा सा, नो किमप्युत्तरं ददौ । यावल्लज्जावनम्राङ्गी, करस्पर्शो न्यधात्ततः ॥ ३१३ ॥ ज्ञातं पुरुष एवैषः, प्रश्नश्चक्रे तदा पुनः । कोऽसि त्वं तव कान्ता ऽस्मि,---नन्योद्वाहांशुकाङ्किता ॥ ३१४ ॥ अतः परं भवत्पाणि,--स्पर्शाचिन्त्य प्रभावतः । योषित पाऽपि पुवेषा, संजाता ह्य तदद्भुतम् ॥ ३१५ ॥ प्राण प्रिय ! तवैवेदं, माहात्म्यं यद्विजृम्भितम् । पाणिग्रहोत्सवन्याजात्, प्रापिता नररूपताम् ॥ ३१६ ॥ गत्वा वर्धापयामि स्वौ, पितरौ सत्त्वरं ततः । सुताऽप्यहं सुतो जज्ञे, कुमारकरसंस्पृशात् ॥ ३१७ ॥ ॥३१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72