Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org राज्यलक्ष्मीपरिभ्रष्टां, करोमि किं पितुगृ है । जहामि वा श्मशाने वा, विद्वेषण प्रभावतः || ३८३ ॥ युग्मम् ॥ प्रत्ययाप्त नरं कञ्चि, - दाकार्यैकान्तमादिशत् । कृत्वा राशीं रथारूढां, कानने त्वं परित्यज ॥ ३८४ ॥ शिक्षामिवाज्ञां भूपस्य, प्रतीछ्य विनयेन वै । भुजिष्यः सुभगो नाम, सज्जीकृत्य रथं ततः ।। ३८५ ॥ स्वामिनीं निकषाssगत्य, भृत्यः प्रोवाच तां प्रति । राजेत्याज्ञापयन्नस्ति, गन्तव्यं कानने त्वया ॥ ३८६ ॥ इतश्चावसरे तस्याः, सव्याक्षं स्फुरितं त्वरा । ज्ञातं मारणपर्यन्तोपसर्गः समुपस्थितः ।। ३८७ ॥ तथापि मे नृपाज्ञैव, प्रमाणं कुलयोषितः । तच्छासनं प्रकुर्वन्त्या - यद्वा तद्वा भवत्वदः ॥ ३८८ ॥ इति ध्यात्वा ततो देवी, भर्त्तुरादेशपेशला । चिन्ताव्याकुलचित्ताऽपि रथारोहणमातनोत् ॥ ३८६ ॥ ततः सुवेगेन रथः, प्रेरितः सुमुखेन सः । काननं प्रति गच्छन्ती, पञ्च्छ रथिनं प्रति ॥ ३६० ॥ नाद्यापि वनमायाति नानापादपसङ्कुलम् । स प्राह स्वामिनि ! त्वं हि प्रेषिता पितृसद्मनि ॥ ३६१ ॥ निशम्यैतद्वचः कर्ण, वज्राघातसमं तदा । स्वामिनी चिन्तयामास, भुजिष्यः किं वदत्ययम् ॥ ३६२ ॥ अथवेदृग्विधं कार्य, मनार्योचितमन्त्र च । अविचार्याऽपरीक्ष्य हि पश्चात्तापकरं पुनः ।। ३६३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरित्रम् ॥ ३८ ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72