Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org अथ तस्या यदुण्डत्वं, पातयाम्युत्तमाङ्गके । तस्या एवेति मात्रा दी, - नापृच्छ्याकार्य मूषिकाम् || ३६१ ॥ तद्दुःख दुःखितस्वान्ता, तीव्रसन्तापतापिता । कथयामास साहृत्स्थं वृत्तान्तं गन्धमूषिकाम् || ३६२ ॥ ततो मूषिकयाऽवादि, चिन्तां पुत्रि कि मा कुरु । मन्मन्त्रास्त्र प्रयोगो हि, दुस्साध्यार्थस्य साधकः || ३६३ ॥ इत्युदित्वा राजगेहा, न्निरगात्कूटनाटिका । अचिरेणैव कालेन संप्राप्ता सिंहपत्तनम् ॥ ३६४ ॥ भाग्नेयी कमलवती, तस्या इत्येति याति सा । कुमारान्तः पुरस्यैव - मभ्यर्णे प्रतिवासरम् || ३६५ || नव्यानव्यकथाख्याने, --गाथाप्रश्नोत्तरादिभिः । अपूर्व श्लोककान्यैश्थ, रञ्जयामास सा तकाम् || ३६६ ॥ विश्वासपाशपतितो, मुग्धमार्गों यथाऽखिलम् । सुखेन वञ्च्यते तद्व, न्नृपः सान्तःपुरस्तया ॥ ३६७ ॥ कुटिलात्मा जङ्गीव, पापधीर्गन्धमूषिका । मन्त्र तन्त्रप्रयोगस्तौ, वशीचक्रे च दम्पती ॥ ३६८ ॥ ज्ञात्वा वश्यं राजलोकं यत्तत्कथनकारकम् । ततो निशीथसमये, शुद्धान्ताभ्यर्णसंस्थिता || ३६६ ॥ गेहे कमलवत्याश्च भृत्यव्यापारयोगतः । कूटेनैवापरनर, --प्रवेशोऽदर्शि भूपतेः ॥ ३७० ॥ शीलालङ्कारशालिन्यां, तस्यां सत्याः शिरोमणौ । कलङ्कविषलेशोऽपि, चन्द्रमुख्यां न विद्यते ॥ ३७१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरित्रम् ॥ ३६ ॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72